Table of Contents

<<1-4-22 —- 1-4-24>>

1-4-23 कारके

प्रथमावृत्तिः

TBD.

काशिका

कारके इति वशेषणम् अपादानादिसंज्ञाविषयम् अधिक्रियते। कारके इत्यधिकारो वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः कारके इत्येवं तद् वेदितव्यम्। कारकशब्दश्च निमित्तपर्यायः। करकम् हेतुः इत्यनर्थान्तरम्। कस्य हेतुः? क्रियायाः। वक्ष्यति, घ्रुवमपाये ऽपादानम् 1-4-24 ग्रामादागच्छति। पर्वतादवरोहति। कारके इति किम्? वृक्षस्य पर्णं पतति। कुड्यस्य पिण्डः पतति। अकथितं च 1-3-51, अकथितं च कारकं कर्मसंज्ञं भवति माणवकं पन्थानं पृच्छति। करके इति किम्? माणवकस्य पितरं पन्थानं पृच्छति। कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.