Table of Contents

<<1-3-50 —- 1-3-52>>

1-3-51 अवाद् ग्रः

प्रथमावृत्तिः

TBD.

काशिका

गृ\उ0304 निगरणे इति तुदादौ पठ्यते, तस्य इदं ग्रहणम्। न तु गृ\उ0304 शब्दे इति क्र्यादिपठितस्य। तस्य ह्यवपूर्वस्य प्रयोग एव न अस्ति। शेषात् कर्तरि पर्स्मैपदे प्राप्ते अवपूर्वाद् गिरतेरात्मनेपदं भवति। अवगिरते, अवगिरेते, अवगिरन्ते। अवातिति किम्? गिरति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

548 अवाद्ग्रः। आत्मनेपद'मिति शेषः। `गृ?' इत्यस्य `ग्र' इति पञ्चमी। `प्रकृतिवदनुकरण'मित्यस्याऽनुत्यत्वात् `ऋत इद्धातो'रिति न भवति। तदनित्यत्वे इदमेव मानम्। अवगिरत इति। शविकरणोऽयम्। `अवगृणाती'त्यत्राप्यात्मनेपदमाशङ्क्य आह- - गृणातिस्त्विति। एवं च तुदादेरेव ग्रहणमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.