Table of Contents

<<1-4-105 —- 1-4-107>>

1-4-106 प्रहासे च मन्यौपपदे मन्यतेरुत्तम एकवच् च

प्रथमावृत्तिः

TBD.

काशिका

प्रहासः परिहासः क्रीडा। प्रहासे गम्यमाने मन्यौपपदे धातोर् मध्यमपुरुषो भवति, मन्यतेश्चौत्तमः, स च एकवद् भवति। एहि मन्ये ओदनम् भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सो ऽतिथिभिः। एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता। मध्यमौत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते। प्रहासे इति किम्? एहि मन्यसे ओदनं भोक्ष्ये इति। सुष्ठु मन्यसे। साधु मन्यसे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

13 प्रहासे च। वाक्यद्वयमिदं सूत्रम्। `प्रहासे च मन्योपपदे इति प्रथमं वाक्यम्। मध्यम इत्यनुवर्तते। मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः। मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते। तदाह–मन्यधातुरित्यादिना। तस्मिन्प्रकृतिभूते सतीति। तस्माद्धातोर्लस्य स्थाने इत्यर्थः। मध्यमः स्यादिति। `अस्मद्युपपदे' इति शेषः। अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः। `मन्यतेरुत्तम एकवच्चे'ति द्वितीयं वाक्यम्। तद्व्याचष्टे– मन्यतेस्तूत्तमः स्यादिति। `युष्मद्युपपदे' इति शेषः। पूर्वसूत्रात्तदनुवृत्तेः। स चेति। सः = मन्येतरुत्तमपुरुषः,द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः। मध्यमोत्तमयोव्र्यत्यासार्थमिदम्। एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति।

तत्त्वबोधिनी

12 वाक्यद्वयमिदं सूत्रम्। `प्रहासे च मन्योपपदे' इति प्रथमं वाक्यम्। मध्यम इत्यनुवर्तते। मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः। मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते। तदाह– मन्यधातुरित्यादिना। तस्मिन्प्रकृतिभूते सतीति। तस्माद्धातोर्लस्य स्थाने इत्यर्थः। मध्यमः स्यादिति। `अस्मद्युपपदे' इति शेषः। अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः। `मन्यतेरुत्तम एकवच्चे'ति द्वितीयं वाक्यम्। तद्व्याचष्टे— मन्यतेस्तूत्तमः स्यादिति। `युष्मद्युपपदे' इति शेषः। पूर्वसूत्रात्तदनुवृत्तेः। स चेति। सः = मन्यतेरुत्तमपुरुषः, द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः। मद्यमोत्तमयोव्र्यत्यासार्थमिदम्। एतत्सर्वमनुवपदमेवोदाहरणे स्पष्टीभविष्यति।

Satishji's सूत्र-सूचिः

TBD.