Table of Contents

<<1-3-85 —- 1-3-87>>

1-3-86 बुधयुधनशजनैङ्प्रुद्रुस्रुभ्यो णेः

प्रथमावृत्तिः

TBD.

काशिका

णिचश्च 1-3-74 इति कर्त्रभिप्रायत्रियाफलविवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। बुध युध नश जन इङ् प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेम्यः परस्मैपदम् भवति। बोध्यति। योध्यति। नाशयति। जनयति। अध्यापयति। प्रावयति। द्रावयति। स्रवयति। ये ऽत्राकर्मकास् तेषाम् अणावकर्मकाच् चित्तवत्कर्तृकात् 1-3-88 इत्येवं सिद्धे वचनम् इदम् अचित्तवत्कर्तृकार्थम्। बोध्यति पद्मम्। योध्यन्ति काष्ठानि। नाशयति दुःखम्। जनयति सुखम्। ये ऽत्र चलनार्थ अपि तेषाम् निगरणचलनार्थेभ्यश्च 1-3-87 इति सिद्धे यदा न चलनार्थास् तदर्थं वचनम्। प्रवते। प्राप्नोति इति गम्यते। अयो द्रवति। विलीयते इत्यर्थः कुण्डिका स्रवति। स्यन्दते इत्यर्थः। तद्विषयाण्युदाहरणानि { प्रावयति। द्रावयति। स्रावयति}।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

577 बुधयुध। बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः। बोधयति पद्ममिति। `सूर्य'इति शेषः। बुधिर्विकसनार्थकः। विकसति पद्मम्। तद्विकासयति सूर्य इत्यर्थः। `अणावकर्मकाच्चित्तवत्कर्तृका'दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत्। योधयति काष्ठानीति। काष्ठानि युध्यन्ते स्वयमेव। तानि योधयतीत्यर्थः। अणावचित्तवत्कर्तृकत्वात् `अणावकर्मका'दित्यस्य न प्राप्तिः। अतएव योधयति देवदत्तमिति नोदाह्मतम्, `अणावकर्मकाच्चित्तवत्कर्तृका'दित्येव सिद्धेः। एवमग्रेऽपि ज्ञेयम्। नाशयति दुःखमिति। दुखं नश्यति, तन्नाशयति हरिरित्यर्थः। जनयति सुखमिति। जायते सुखम्, तज्जनयति हरिरित्यर्थः। अध्यापयतीति। अधीते वेदं विधिः, तमध्यापयतीत्यर्थः। `प्रु गतौ' इत्यस्योदाहरति– प्रावयतीति। गत्यर्थकत्वं मत्वा आह– प्रापयतीत्यर्थ इति। द्रावयतीति। द्रवत्याज्यं, तद्द्रावयतीत्यर्थः। धातोद्र्रवीभावार्थकत्वं मत्वा आह– स्यान्दयतीत्यर्थ इति। `प्रीतिं भक्तजनस्य यो जनयते' इत्यात्मनेपदं तु प्रामादिकमेव। यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम्। प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.