Table of Contents

<<1-3-86 —- 1-3-88>>

1-3-87 निगरणचलनार्थेभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

णेः इति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्शायाम् आत्मनेपदापवाद्ः परस्मैपदं विधियते। निगरणम् अभ्यवहारः। चलनं कम्पनम्। निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। निगारयति। आशयति। भोजयति। चलनार्थेभ्यः चलयति। चोपयति। कम्पयति। अयम् अपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च। अदेः प्रतिषेधो वक्तव्यः। अत्ति देवदत्तः, आदयते देवदत्तेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

578 निगरण। निगरणं भक्षणम्। चलनं– कम्पनम्। एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः। पूर्वसूत्रे प्रुद्रुरुआऊणां ग्रहणं तु अचलनार्थानामेव। अत एव मूले प्रापयतीत्यादि व्याख्यातम्। पानमपि चकोरजिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका। इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी'। इति श्रीहर्षश्लोके आचामयेति पृथक्पदम्। अः विष्णुः, तस्य स्त्री ई = लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम्। `एङ्?ह्यस्वात्' इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम्। वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनाऽसंभवादाचामिरादरे लाक्षमिकःअतो निगरणार्थकत्वाऽभावान्न परस्मैपदम्। नचैवं सति प्रत्यवसानार्थकत्वाऽभावाच्चक्,#उषोः `गतिबुद्धी'ति कर्मत्वं न स्यादिति शङ्क्यम्, न ह्राचामिरत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते। सादरज्ञाने लाक्षणिक इति यावत्। ततश्च बुद्ध्यर्थकत्वादाचामेश्चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्धुशेखरे प्रपञ्चितम्। अदेः प्रतिषेध इति। अदेण्र्यन्तान्निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः। `आदयते देवदत्तेने'त्यत्र अदेः प्रत्यवसानार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह– निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेध इति। नतु शेषात्कर्तरीति प्राप्तस्येत्येवकारार्थः, `अनन्तरस्य' इति न्यायादिति भावः।

तत्त्वबोधिनी

474 निगरणचलनार्थेभ्यश्च। निगरणं– भक्षणम्। प्रुद्रुरुआऊणां चलनार्थानामेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे ग्रहणम्। अतएव तत्र विवृतं `प्रापयतीत्यर्थ' इत्यादिना। कतं तर्हि `इमां किमाचामयसे न चक्षुषी' इति श्रीहर्षः। आङ्पूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत्। अत्राहुः- - आचामयेति पथृक्पदम्। #ई लक्ष्मीस्तया सहिता सेस्तस्याः संबोधने `हे से' इति। केचित्तु सा त्वम् इमे चक्षुषो इनचक्षुषी = श्रेष्ठचक्षुषी आचामय किमिति व्याचक्षते।

Satishji's सूत्र-सूचिः

TBD.