Table of Contents

<<1-3-87 —- 1-3-89>>

1-3-88 अणावकर्मकाच् चित्तवत्कर्तृकात्

प्रथमावृत्तिः

TBD.

काशिका

णेः इति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायाम् आत्मनेपदापवादः परस्मैपदं विधीयते। अण्यन्तो यो धतुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद् ण्यन्तात् परस्मैपदं भवति। आस्ते देवदत्तः, आसयति देवदत्तम्। शेते देवदत्तः, शाययति देवदत्तम्। अणौ इति किम्? चेतयमानं प्रयोजयति चेतयते, इति केचित् प्रत्युदाहरन्ति तद्युक्तम्। हेतुमण्णिचो विधिः। प्रतिषेधो ऽपि प्रत्यासत्तेस् तस्य एव न्याय्यः। तस्मादिह चेतयति इति परस्मैपदेन एव भवितव्यम्। इदं तु प्रत्युदहरणम् आरोहयमाणं प्रयुड्क्ते आरोहयते। अकर्मकातिति किम्? कठं कुर्वाणं प्रयुङ्क्ते कारयते। चितवत्कर्तृकातिति किम्? शुष्यन्ति व्रीहयः, शोषयते व्रीहीनातपः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

579 अणावकर्मकात्। ण्यन्तादिति शेषपूरणम्, णेरित्यनुवृत्तेरिति भावः। अणौ यो दातुरकर्मकः, चित्तवत्कर्तृकश्च, तस्माण्ण्यन्तात्परस्मैपदमिति यावत्। चित्तवत्कर्तृकादिति किम् ?। व्रीहयः शुष्यन्ति, तान् शोषयते। अकर्मकात्किम् ?। कटं करोति तं प्रयुङ्क्ते।कटं कारयति।

तत्त्वबोधिनी

475 अणावकर्मकात्। क्रियाफलस्य कर्तृगमित्वविवक्षायामात्मनेपदे प्राप्ते परस्मैपदार्थमिदम्। अणाविति किम् ?। हेतुमण्यन्तादकर्मकात्परस्मैपद[मिति] नियमो मा भूत्। आरोह्रमाणं प्रयुङ्क्ते आरोहयते। न्यग्भवन्तं प्रेरयतीत्यर्थः। `णेरणौ' इतिसूत्रे उदाहरणत्वेन य आरोहयतिकर्मको निर्णीस्तस्माद्द्वितीये णिचि प्रत्युदाहरणमिदम्। केचित्तु अणाविति किम्। चुरादिण्यन्तात्परस्मैपदनियमो माभूत्। तद्यथा पुट्ट प्वुट्ट अल्पीभावे। पुट्टयति। चुट्टयति। अल्पीभवतीत्यर्थः। अकर्मकाविमौ। ततो हेतुमण्णिचि–पुट्टयते चुट्टयते। इति प्रत्युदाहरणन्ति, तद्भाष्यादिविरुद्धम्। तथाहि बुधादिसूत्रादिह णेरिति वर्तते, बुधादिभ्यश्च हेतुमण्णिरेव संभवतीति तदन्तादेवायं विधिः। अणाविति प्रतिषेधोऽपि प्रत्यास्त्तेस्तस्यैव न्याय्यः। तेन चुरादिण्यन्ताद्धेतुमण्णौ परस्मपैदं भवत्येवेति भाष्यादौ स्थितम्। तथा च हेतुमण्णेः प्राग्योऽकर्मको हेतुमण्ण्यन्तभिन्नस्तस्माद्धेतुमण्णावात्मनेपदं नेति फलितोऽर्थः। अकर्मकात्किम्?। कटं यः करोति तं प्रयुङ्क्ते कटं कारयति। चित्तवत्कर्तृकादिति किम् ?। शुष्यन्ति व्रीहयस्ताञ्शोषयते।

Satishji's सूत्र-सूचिः

वृत्तिः अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद्ण्यन्तात् परस्मैपदं भवति। When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

उदाहरणम् – श्रीकृष्ण: शेते। गोपी श्रीकृष्णं शाययति।
On the other hand -
शुष्यन्ति व्रीहयः। शोषयते व्रीहीनातपः।
देवदत्त: कटं करोति। पिता देवदत्तं कटं कारयते।