Table of Contents

<<1-3-72 —- 1-3-74>>

1-3-73 अपाद् वदः

प्रथमावृत्तिः

TBD.

काशिका

कर्त्रभिप्राये इति वर्तते। अपपूर्वद् वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। धनकामो न्यायम् अपवदते। न्यायापवादेन धनम् अर्जयिष्यामि इति मन्यते। कर्त्रभिप्रये क्रियफले इत्येव, अपवदति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

565 अपाद्वदः। अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः। न्यायमपवदते इति। वचनेने निरस्यतीतय्र्थः। `किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः' इति न्यायात्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.