TBD.
णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमरम्भः। ण्यन्तात् करोतेर् मिथ्योपपदादात्मनेपदं भवति अभ्यासे। अभ्यासः पुनः पुनः करणम्, आवृत्तिः। पदं मिथ्या कारयते। सापचारं स्वरादिदुष्टम् असकृदुच्चारयति इत्यर्थः। मिथ्योपपदतिति किम्? पदं सुष्ठु कारयति। कृञः इति किम्? पदं मिथ्या वाचयति। अभ्यासे इति किम्? पदं मिथ्या कारयति। सकृदुच्चारयति।
TBD.
–
564 मिथ्योपपदात्। अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात्कृञ आत्मनेपदमित्यर्थः। इत ऊध्र्वं `णे'रिति निवृत्तम्।
467 मिथ्योपपदात्कृञोऽभ्यासे। इह करोतिरुच्चारणार्थत्वादकर्मकः। उच्चारण– - निःसरणम्। ण्यन्तस्तूच्चारणवृत्तिः सकर्मकः। उच्चारयतीति। निःसारयतीत्यर्थः। असकृदुच्चारणे तु धातोर्लक्षणा, आत्मनेपदं तु द्योतकं, तेनैव द्योतितत्वात् `नित्यवीप्सयो'रिति न द्विर्वचनम्। ऋत्विजो यजन्तीति। दक्षिणादिकं तु न यागफलम्, `स्वर्गकामो यजेते'त्यादिना स्वर्गाद्युद्देशेन यागादिविधानात्स्वर्गादिरेव फलमिति भावः।
TBD.