Table of Contents

<<1-3-18 —- 1-3-20>>

1-3-19 विपराभ्यां जेः

प्रथमावृत्तिः

TBD.

काशिका

शेषात् कर्तरि परस्मैपदम् 1-3-78 इत्यस्य अपवादः। विपरा पूर्वाज् जयतेर् धातोरात्मनेपदं भवति। विजयते। पराजयते। विपराशब्दावुपसर्गौ गृह्येते साहचर्यत्। तेन इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

738 विजयते. पराजयते..

बालमनोरमा

510 विपराभ्यां जेः। वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः। विजयते इति। उत्कृष्टो भवतीत्यर्थः। पराजयते इति। निकृष्टो भवतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.