TBD.
अकर्त्रभिप्रायर्थो ऽयम् आरम्भः। आङ्पूर्वाद् ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति। विध्यामादत्ते। अनास्यविहरणे इति किम्? आस्यं व्याददाति। आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः। विपादिकां व्याददाति। कुलं व्याददाति। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। इह मा भूत्, व्याददते पिपीलिकाः पतङ्गस्य मुखम्।
TBD.
–
511 आङो दो। आस्यविहरणं –मुखविकसनम्। दा इत्यस्य दः इति पञ्चमी। तदाह- - ददातेर्मुखविकसनादन्यत्रेति। विद्यामादत्ते इति। गृह्णातीत्यर्थः। दाञो ञित्त्वेऽप्यकत्र्रभिप्रायार्थमिदम्। अविवक्षितमिति। `अविहरणे' इत्येतावदेव विवक्षितमित्यर्थः। विपादिकां व्याददातीति। क्षारौषधादिना विदारयतीत्यर्थः। अत्र आस्यविहरणाऽभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः। नदी कूलं व्याददातीति। भिनत्तीत्यर्थः। अत्रापि विकसनसत्त्वादास्यविहरणाऽभावेऽपि नात्मनेपदम्। पराङ्गकर्मकान्न निषेध इति, - वार्तिकम्। पतङ्गस्येति। पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः।
437 आङो दो। अकत्र्रभिप्रयार्थमिदम्। तेन `व्यादत्ते विहगपतिर्मुखं स्वकीय'मिति प्रयोग आस्यविहरणेऽपि सिद्धः, क्रियाफलस्य कर्तृमित्वविवक्षणात्।
TBD.