Table of Contents

<<1-3-15 —- 1-3-17>>

1-3-16 इतरेतरान्योन्यौपपदाच् च

प्रथमावृत्तिः

TBD.

काशिका

इतरेतरः, अन्योन्यः इत्येवम् उपपदाद् धातोः कर्मव्यतिहारे आत्मनेपदं न भवति। इतरेतरस्य व्यतिलुनन्ति। अन्योन्यस्य व्यतिलुनन्ति। परस्परौपपदाच् च इति वक्तव्यम्। पर्स्परस्य व्यतिलुनन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

507 इतरेतर।`नात्मनेपद'मिति शेषः।

तत्त्वबोधिनी

435 इतरेतरा। नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्?तद्द्?योतकमात्मनेपदं न प्राप्नोतीतित किमर्थो निषेधः ?। अत्राहुः लौकिके व्यवहारे लाघवाऽनादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते। अत एव व्यतिलुनीते इत्यादौ कर्मव्यतिहारद्योतनाय `व्यती' त्युपसर्गावात्मनेपदं च समुञ्चित्य प्रयुज्यत इति।

Satishji's सूत्र-सूचिः

TBD.