Table of Contents

<<1-3-14 —- 1-3-16>>

1-3-15 न गतिहिंसाऽर्थेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण आत्मनेपदं प्राप्तं प्रतिषिद्यते। गत्यर्थेभ्यो हिंसाऽर्थेभ्यश्च धातुघ्यः कर्मव्यतिहरे आत्मनेपदं न भवति। व्यतिगच्छन्ति। व्यतिसर्पन्ति। हिंसाऽर्थेभ्यः व्यतिहिंसन्ति। व्यतिघ्नन्ति। प्रतिषेधे हसादीनाम् उपसङ्ख्यनम्। व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति। हरतेरप्रतिषेधः। संप्रहरन्ते राजानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

735 व्यतिगच्छन्ति. व्यतिघ्नन्ति..

बालमनोरमा

506 न गतिहिंसार्थेभ्यः। कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः। हसादिगणस्य अदर्शनादाह– हसप्रकारा इति। उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम्। ह्मञ्?धातुस्तु उपसर्गबलादिं?धसायां वर्तते इति न तस्य प्रतिषेध इत्याह– हरतेरप्रतिषेध इति। अर्थग्रहणलभ्यमिदं वार्तिकम्।

तत्त्वबोधिनी

434 न गतिहिंसार्थेभ्यः। अर्थशब्दः प्रत्येकभिसंबध्यते। कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः। अर्थग्रहणसामथ्र्याद्येशब्दान्तरमनपेक्ष्य गतिहिंसयोर्वर्तन्ते त एवेह गृह्रन्ते। हरतिस्तूपसर्गवशादिं?धसायां प्रवर्तते इति `हरतेरप्रतिषेधः' इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.