Table of Contents

<<1-2-66 —- 1-2-68>>

1-2-67 पुमान् स्त्रिया

प्रथमावृत्तिः

TBD.

काशिका

तल्लक्षणश्चेदेव विशेषः इति वर्तते। वृद्धो यून इति निवृत्तम्। स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते। स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति। ब्राह्मणश्च मयूरी च कुक्कुटमयूर्यौ। एवकरः किमर्थः। इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ। पुंयोगादाख्यायाम् 4-1-48 इत्यपरो विशेषः। पुमानिति किम्? प्राक् च प्राचि च प्राक्प्राच्यौ। प्राकित्यवययम् अलिङ्गम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

920 पुमान्स्त्रिया। तल्लक्षण एवेति। `वृद्धो यूने'त्यतस्तदनुवृत्तेरिति भावः। हंसी चेति। अत्र पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते। स्त्रीत्वपुंस्त्वकृतवैरूप्यादेव `सरूपाणामि'त्यस्याऽप्राप्तिः। मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्दयोस्तु नायमेकशेषः, एकविभक्तो सरूपाणामित्यनुवत्र्य एकविभक्तौ सरूपाणां स्त्रीत्वपुंस्त्वेतरकृतवैरूप्यरहितानामित्याश्रयणात्। इह च मातरावित्यत्र `अप्तृ'न्निति दीर्घतदभावाभ्यामपि वैरूप्यात्।अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम्।

तत्त्वबोधिनी

797 पुमान्स्त्रिया। `वृद्धो यूने'ति निवृत्तम्, `सरूपाणा'मिति त्वनुवर्तते, `भ्रातृपुत्रौ'इत्युत्तरसूत्रारम्भात्। तेन `हंसश्च वरटा चे'त्यत्र न भवति। अन्यथा स्यादेवाऽतिप्रसङ्गः। हंसत्वजातिसाम्येन शब्दवैलक्षण्यस्य स्त्रीत्रपुंस्त्वमात्रप्रयुक्तत्वात्। स्यादेतत्—गौरियं, गौश्चायं, तयोः सहोक्तौ `एतौ गावौ'इति नियमतो न स्यात्, तल्लक्षणविशेषाऽभावात्। किं तु स्त्रीवाचकस्य पुंवाचकस्य वा `सरूपाणा'मित्येकशेषोऽनियमेन स्यात्। अत्राहुः— तदितरकृतविशेषाऽभावे तात्पर्यान्न दोष इति। `इन्द्रेन्द्राण्यौ'इत्यादौ त्वेकशेषो न भवति, स्त्रीत्वपुंस्त्वेतरपुंयोगकृतविशेषस्य सद्भावात्। स्यादेतत्`—-`एतौ गावौ'इति नियमतो न स्या'दिति मनोरमादौ यदुक्तं, तत्कथं सङ्गच्छताम्?। `त्यदादितः शेषे पुंनपुंसकतः'इति नियमप्रवृत्त्या स्त्रीवाचिनो गोशब्दस्य शेषेऽपि `एतौ गावौ'इति नियमतः प्रयोगः ध्यत्वेवेति चेत्। अत्र केचित्—- दिक्प्रदर्शनमात्रमिदम्। `नीलौ गावौ'इति `सुन्दरौ गावौ'इति नियमतो न स्यादित्युदाहर्तव्यम्। अथवा एतशब्दोऽत्राऽदन्तः कर्बुरवाची। एतश्च एता च एतौ गावौ, कर्बुरौ गावौ। `सरुपाणा—'मित्यनेन स्त्रीलिङ्गशेषे तु `एत#ए गावौ'इत्यपि स्यादिति यथाश्रुतमेव समर्थनीयमित्याहुः। तदपरे न क्षमन्ते। `त्यदादितः शेषे'इति नियमाऽऽप्रवृत्तावपि `पुमान्स्त्रिया'इति नियमप्रवृत्त्या `नीलौ गावौ' `एतौ गावौ'इति नियमतः सिद्ध्यत्येवेति। अत्र वदन्ति— `अद्वन्द्वतत्पुरुषविशेषणाना'मित्येतन्न्यायसिद्धमेव वचनम्। `विशेष्ये यल्लिङ्गं तदेव विशेषणेष्वपी'ति सर्वसंमतत्वात्, एवं च द्वन्द्वतत्पुरुषविशेषणेष्विव एकशेषविशेषणेऽपि `एतौ'इत्यत्र `त्यदादितः शेषे'इत्यादिनियमाऽप्रवृत्त्या विशेष्यगतमेव लिङ्गं भवतीति स्त्रीवाचिगोशब्दस्य शेषे `एते'इति स्यादेवेति `एतौ गावौ'इति नियमतो न स्यादित्यक्षेपः सङ्गच्छत एवेति दिक्।

Satishji's सूत्र-सूचिः

TBD.