Table of Contents

<<1-2-71 —- 1-2-73>>

1-2-72 त्यदादीनि सर्वैर् नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

तय्दादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च। सर्वग्रहणं सकल्यार्थम्। नित्यग्रहनं विकल्पनिवृत्त्यर्थम्। स च देवदत्तश्च तौ। यश्च देवदत्तश्च यौ। त्यदादीनां मिथो यद्यत् परं तत्तच् छिस्यते। स च यश्च यौ। यश्च कश्च कौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

925 त्यदादीनि। सर्वैरिति। त्यदादिभिरितरैश्चेत्यर्थः। ताविति। अत्र देवदत्तशब्दो निवर्तते। तच्छब्दस्तु शिष्यते। तद्देवदत्ताविति न भवति। `सर्वैः किम् ?। प्रत्यासत्त्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम्।

तच्छिष्यत इत्यर्थः। शब्दपरविप्रतिषेधाश्रयणादिति भावः। स च यश्च यौ, सा च या च ये इति। त्यदादिगणे यच्छब्दस्य तच्छब्दादूध्र्वं पाठात् परत्वात्स एव शिष्यते इति भावः, पूर्वशेषोऽपीति। परशब्दस्येष्टवाचित्वात्क्वचित्पूर्वमपि शिष्यत इति। भावः। अत्र `द्विपर्यन्ताना'मिति न भवति। अहं च भवांस्चावामिति भाष्योक्तेः।

स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच्च नपुंसकं यद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थः। कानीत्याकाङ्क्षायामर्थांत्त्यदादीन्येव सम्बध्यन्ते। सा च देवदत्तश्च ताविति। अत्र तच्छब्दः शिष्यते, समभिव्याह्मतदेवदत्तशब्दलिङ्गश्च। देवदत्तशब्दस्तु निवर्तत एव। पुंनपुंसकयोरिति। `सहोक्ता'विति शेषः। परत्वादिति। पुंनपुंसकतो लिङ्गवचनानी'त्यत्र पुंमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः। \र्\नद्वन्द्वेति। द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषे `त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी'त्येतन्न भवतीत्यर्थः। द्वन्द्व उदाहरति– कुक्कुटमयूर्याविमे इति। `अयं च इयं च इमे'इत्यत्र `त्यदादितः शेषे' इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव विशेषणस्येति बोध्यम्। न च अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति, `पुमान् स्त्रिये'त्युक्तत्वात्, अतः पुंनपुंसकतो लिङ्गविधेः प्रसक्तिः कथमिति वाच्यं, `परवल्लिङ्ग'मिति हि द्वन्द्वतत्पुरुषार्थयोः परवल्लिङ्गविधिः। अतो द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम्। ततश्च `कुक्कुटमयूर्याविमे'इति उदाहरणे–अयं च इयं चेति विग्रहे `पुमान् स्त्रिया'ति पुंशेषेऽपि `परवल्लिङ्ग'मिति विशेषणत्वात्स्त्रीलिङ्गत्वे सति तस्य `त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः। क्वचिन्मूलपुस्तकेषु तु `मयूरीकुक्कुटाविमा'वित्यपि दृश्यते, तत्तुत प्रकृतानुपयुक्तम्, ?त्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि `पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वाऽप्रसक्त्या तत्र `त्यदादितः शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेन `अद्वन्द्वतत्पुरुषविशेषणाना'मिति निषेधस्यानुपयोगात्। तत्पुरुषे उदाहरति– तच्चेति। पिप्पल्या अर्धम्–अर्धपिप्पली। `अर्धं नपुंसक'मिति तत्पुरुषः। अर्धपिप्पली च पिप्पल्यर्धं च-अर्धपिप्पल्यौ। तच्च सा च ते। तत्र पिप्पल्यर्धंशब्दविशेष्याभिप्रायं `त'दिति नपुंसककत्वम्। `से'ति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम्। अत्र `पुमान् स्त्रिये'त्यस्य नैव प्रसक्तिः, किन्तु `नपुंसकमनपुंसकेनैकव'दिति नपुंसकं शिष्टम्। तत्र `परवल्लिङ्ग'मिति स्त्रीत्वम्। तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापि `परवल्लिङ्ग'मिति स्त्रीत्वम्। तस्य `त्यदादितः शेषे' इति नपुंसकत्वं प्राप्तं निषिध्यते। एवंच `ते' इति स्त्रीलिङ्गमेव सिध्यति। यद्यपि स्त्रीत्वे नपुंसकत्वे वा `ते' इति द्विवचनस्य न कोऽपि विशेषः, तथाप्यर्धपिप्पल्यस्ता इत्युदाहार्यम्। तच्च तच्च सा चेति विग्रहः।

तत्त्वबोधिनी

801 त्यदादीनि सर्वैः। सर्वैः किम्?। त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात्, प्रत्यासत्त्या `त्यदादिभिरेव सहोक्तौ'इत्यर्थो मा भूत्। यत्परमिति। शब्दपरविप्रतिषेधादिति भावः। त्यदादित इति। आद्यादित्वात्तसिः। `त्यदादीनां [स्त्री]शेषे सह विवक्षितेषु यः पुमान्, यच्च नपुंसकं, तद्वशेन लिङ्गप्रतिपादकानि भवन्तीति वाच्य'मित्यर्थः। कानीयत्याकाङ्क्षायामर्थात्त्यदादीन्येव। अस्यापवादमाह— ।\र्\नद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्। अद्वन्द्वेति। द्वन्द्वादिविशेषणानां पूर्वोक्तं न, किं तु विशेष्यनिघ्नतैवेत्यर्थः। नन्वेवं `कुक्कुटमयूर्यौ'इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद्विशेष्यनिघ्नतायामपि `कुक्कुटमयूर्याविमे'इति नियमतो न स्यादिति चेदत्र नव्याः—`परवल्लिङ्ग'मित्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवाऽनुप्रयोगस्येति न काचिदनुपपत्तिरिति। मयूरीकुक्कुटाविमाविति। प्रकृतानुपयुकतमप्येतत्प्रसङ्गादुक्तम्। तच्चेति। पिप्पल्यद्र्धम्। सा चेति अर्धपिप्पली। तत्पुरुषविशेषणमुदाहरति—अर्धपिप्पल्यौ ते इथि। यद्यपि स्त्रीनपुंसकसाधारणः `ते' इति प्रयोगस्तथापि `तच्च तच्च सा च अर्धपिप्पल्यस्ताः'इत्याद्युदाहरणमूह्रम्।

Satishji's सूत्र-सूचिः

TBD.