TBD.
पुंसा योगः पुंयोगः। पुंयोगाद् धेतोर् यत् प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद् ङीष् प्रत्ययो भवति। गणकस्य स्त्री गणकी। महामात्री। प्रष्ठी। प्रचरी। पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवात् पुंशब्दा एते, तद्योगात् स्त्रियां वर्तन्ते। पुंयोगातिति किम्? देवदत्ता। यज्ञदत्ता। आख्याग्रहणात् किम्? परिसृष्टा। प्रजाता। पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते। गोपालिकादीनां प्रतिषेधः। गोपालकस्य स्त्री गोपालिका। सूर्याद् देवतायां चाब् वक्तव्यः। सूर्यस्य स्त्री देवता सूर्या। देवतायाम् इति किम्? सुरी।
TBD.
1264 या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष्. गोपस्य स्त्री गोपी. (पालकान्तान्न) -.
497 पुंयोगात्। पुंयोगादिति हेतौ पञ्चमी। आख्यायामिति पञ्चम्याः सप्तम्यादेशः, `सुपां स्थाने सुपो भवन्तीति वक्तव्य'मित्युक्तेः। आख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचक इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात्पुंस इति लभ्यते। तथाच आख्यायामित्यनेन पुंसि प्रसिद्धाच्छब्दादिति लभ्यते। पुंयोगादिति स्त्रियामित्यत्रान्वेति। तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते। तदा–या पुमाख्येत्यादिना। ङीषिति। `अन्यतो ङीष्' इत्यतस्त दनुवृत्तेरिति भावः। `वोतो गुणवचना'दिति पूर्वसूत्रे तु `गुणवचनान्ङीबाद्युदात्तार्थः' इति वार्तिकान्ङीप् लब्ध इति न तत्राऽस्यानुवृत्तिः। गोपस्य स्त्रीति। गाः पातीति गोपः, `आतोऽनुपसर्गे कः'। तज्जायायां तु गोरक्षणाऽभावेऽपि तद्भार्यात्वात्तद्व्यपदेशः। ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वान्ङीषि `यस्येति चे'त्यकारलोप इति भावः। हरेः स्त्री, शम्भोः स्त्रीत्यादौ न ङीष्, स्त्रीप्रत्ययविधिप्रकरणेऽत इत्यनुवृत्तेः। या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा। तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः। नच गोपस्य माता \उfffदाश्रूः मातुलानी वा गौपीति स्यादिति वाच्यम्, `अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्दमपी'ति बाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात्। दुहितरि कैकयी देवकीत्यादयस्तु गौरादौ पाठ\उfffदा इति शब्देन्दुशेखरे स्थितम्। आख्याग्रहणं किम् ?। प्रसूता। अयं हि शब्दो जातप्रसवामाहा। स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष्। अत्र `गोपालकादीनां प्रतिषेधः' इति वार्तिकम्। अत्र आदिपदेन अ\उfffदापालिकेत्यादयः पालकान्ता एव गृह्रन्ते, भाष्ये तेषामेवोदाहरणात्। तदाह– पालकान्तान्नेति। `पुंयोगलक्षण ङी'षिति शेषः। गोपालिकेति। गोपालकस्य स्त्रीत्यर्थः। ननु पालयतीति पालकः, कर्तरि ण्वुल्, `युवोरनाकौ' इत्यकादेशः। `णेरनिटि' इति णिलोपः। गवां पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः। तत्र किं शेषे षष्ठी, उत `कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी ?। न तावदाद्यः, प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दादुत्पन्नसुपः परत्वेन असुप इति निषेधात् `प्रत्ययस्था'दिति इत्त्वानुपपत्तेः। नचाऽस्तु कर्मणि षष्ठीत#इ द्वितीयः पक्षः, `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्वपत्तेः' इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासदुत्पन्नस्य टापः सुपः परत्वाऽभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यं, `तृजकाभ्यां कर्तरी'ति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम्–गाः पालयतीति गोपालः। कर्मण्यण्। उपपदसमासः। गोपाल एव गोपालकः, स्वार्थिकः कः। तद्धितावयवत्त्वात्सुब्लुक्। गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात्। नह्रत्र टाप् सुपः परः, केन व्यवधानात्। अस्तु वा शेषषष्ठ\उfffदा समासः, एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठ\उfffदा समासप्रवृत्तेः। अत एव प्रकृतसूत्रे `उपपदमतिङि'ति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ठ\उfffदा समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम्। \उfffद्स्त्र पुंयोगाद्वत्र्तमानात्सूर्यशब्दाच्चाप् वक्तव्य इत्यर्थः। `गुयोगा'दिति ङीषोऽपवादः। चपावितौ। सूर्येति। चापि सवर्णदीर्घः। देवतायां किमिति। सूर्यस्त्रियां देवतात्वाऽव्यभिचारात् प्रश्नः। सूरी कुन्तीति। ङीषि `सूर्यतिष्ये'ति यकारलोपः, `यस्येति चे'त्यकारलोपः। मानुषीयमिति। इयं कुन्ती मानुषी, न तु देवतेत्यर्थः। एतच्च महाभारतादौ स्पष्टम्। नच `सूर्याद्देवतायां ने'त्येवोच्यतां, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यं, टापि हि सति पित्त्वादनुदात्तत्वम् `अनुदात्तौ सुप्पित्तौ' इत्युक्तेः। चापि तु `चितः' इत्यन्तोदात्तत्वमिति भेदः।
448 पुंयोगादाख्यायाम्। इह`पु'मिति लुप्तषष्ठीकं पृथक् पदं, तच्चावर्तते। `पुंयोगा'दिति हेतौ पञ्चमी। `आख्याया'मिति तु पञ्चम्यर्थे सप्तमीत्याशयेनाह—-या पुमाख्येत्यादि। `पुमाख्या'—पुंवाचकः शब्दः। `पुंयोगात् स्त्रियां वर्तते' इत्यनेन गौणी वृत्तिरुक्ता। यदा तु मुख्यार्थात् `तस्येदम्'इत्यण्, तदा `गौपी'त्येव भवति। योगः–संबन्धः। स चेह `दन्पतिभाव एवेति नाग्रहः, किं तु जन्यजनकभावोऽपि गृह्रते, सङ्कोचे मानाऽभावात्। तेन `कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभू'दिति भट्टिप्रयोगः सङ्गच्छते। केकयस्य दुहिता केकयी। `जनपशब्दात्क्षत्त्रियाद'ञित्यपत्यप्रत्यये तु `कैकेयीतो भरत'इति स्यात्। न चेह `अतश्चे'ति तद्वाजाकारस्य लुक्शङ्क्यः, `न प्राच्यभर्गादी'ति प्रतिषेधात्। तथा च कालिदासः–`कैकेयि। कामाः फलितास्तवे'ति। एतेन `देवकी'व्याख्याता। पुंयोगात् किम्?, देवदत्ता। अयं हि संज्ञाशब्दः स्वभावात्स्त्रियमाह, न तु पुंवाचकशब्दयोगात्। आख्यायां किम्?, प्रसूता। अयं हि जातपर्सवामाह। स च पर्सवो गर्भधारणद्वारा पुंयोगनिमित्तक इत्यस्तीह पुंयोगः, किं तु नायं पुंसो वाचक इति न ङीष्। सूरीति। `सूर्यतिष्ये'ति यलोपः।
TBD.