Table of Contents

<<1-2-65 —- 1-2-67>>

1-2-66 स्त्री पुंवच्च

प्रथमावृत्तिः

TBD.

काशिका

शेषः इति वर्तते, वृद्धो यूना इति च सर्वम् स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति। पुंसः इव अस्याः कार्यं भवति। स्त्र्यर्थः पुमर्थवद् भवति। गर्गी च गर्ग्यायणश्च गार्ग्यौ। वात्सी च वात्स्यायनश्च वात्स्यौ। दाक्षी च दाक्षायाणश्च दाक्षी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

919 स्त्री पुंवच्च। `वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते। तदाह–यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति। गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः। स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् सत्त्वात् पूर्वेणाऽप्राप्ते वचनमिदम्। तदर्थ इति। तस्य=शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः। गर्गी चेति। गर्गस्यापत्यं स्त्रीत्यर्थः। गर्गादियञन्तात् `यणश्चे'ति ङीप्। गाग्र्यायणौ चेति। गर्गाद्यञन्ताद्यून्यपत्ये `यञिञोश्चे'ति फक्। गर्गा इति। अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते। स पुंवत्। कर्हि यञ् कितो न श्रूयत इत्यत आह– अस्त्रियामितीति। उपलक्षणमिदम्। `तद्राजस्य बहुषु तेनैवास्त्रियामि'त्यतोऽस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः। एतेन `पुंव'दित्यतस्य प्रयोजनमुक्तम्। गार्गी च गाग्र्यायणश्चेति विग्रहस्तु न दर्शितः। तता सत्यबहुत्वाद्यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यं–गाग्र्याविति। तत्र पुंवत्त्वं निरर्थकं स्यात्। उदाहरणान्तरमाह– दाक्षी चेति। दक्षस्य गोत्रा पत्यं स्त्री दाक्षी। `अत इञि'तीञन्तात् `इतो मनुष्यजाते'रिति ङीष्। दाक्षायणश्चेति। दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः। `यञिञोश्चे'ति फक्। दाक्षी च दाक्षीयणश्चेति विग्रहे दाक्षीशब्दः शिष्यते। तस्य पुंवत्त्वे निरर्थकं स्यात्। उदाहरणान्तरमाह–दाक्षी चेति। दक्षस्य गोत्रापत्यं स्त्री दाक्षी। `अत इञि'तीञन्तात् `इतो मनुष्यजाते'रिति ङीष्। दाक्षायणश्चेति। विग्रहे दाक्षीशब्दः शिष्यते। तस्य पुंवत्त्वे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचने `दाक्षी'इति भवति। अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते। ततश्च भागवित्ती च भागवित्तिकश्च, गर्गी च वात्स्याययनश्चेत्यत्र न भवति।

तत्त्वबोधिनी

796 स्त्री पुंवच्च। वृद्धा स्त्रीति। गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः। पुंवद्भावकृतवैलक्षण्यं स्फुटिकर्तुं द्विवचनान्तेन विग्रहमाह गाग्र्यायणाविति। अनुवर्तमान इति। `तद्राजस्य बहुषु—'इत्यतः `पुंव'दित्यर्थातिदेशस्य फलमनेन दर्शितम्। अन्यथा स्त्रीत्वस्याऽनिवर्तनाल्लुङ् न स्यात्। `गर्गान्पश्ये'त्यत्र नत्वं च सिद्धम्। रूपातिदेशे तु नैतत्सिद्ध्येत्, सामान्यातिदेशे विशेषानतिदेशादित्याहुः। `वृद्धो यूना' इत्याद्यनुवर्तनान्नेह—गार्गी च वात्स्यायनौ च।

Satishji's सूत्र-सूचिः

TBD.