Table of Contents

<<1-2-53 —- 1-2-55>>

1-2-54 लुब् योगाप्रख्यानात्

प्रथमावृत्तिः

TBD.

काशिका

लुबप्यशिष्यः। यो ऽयं जनपदे लुप् 4-2-81), वरणाऽअदिभ्यश्च (*4,2.82 इति लुबुच्यते,अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते। नएतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति। किं तर्हि? संज्ञा एताः। तस्मादत्र तस्य निवासः (*4,2 69), अदूरभवश्च 4-2-70 इति तद्धितो न एव उत्पद्यते, किं लुपो विधानेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1277 एवंच सुवपि न विदे इत्याह–लुव्योगाप्रख्यानात्। `अशिष्य'मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतं `लु'वित्यनन्तरं संबध्यते। तदाह–लुबपि न कर्तव्य इति। योगः=अवयवार्थः, तस्य–अप्रख्यानात्=अप्रतीतेरित्यर्थः। तदाह–अवयवेति। नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः।

तत्त्वबोधिनी

1033 लुब्योगेति। `जनपदे लुप्', `वरणादिभ्यश्चे'ति द्विसूत्री `लुप्'अशब्देन विवक्षिता। `अशिष्य'मिति सम्बध्यत एव। तदाह–लुबपीति। प्रकृतिप्रत्ययार्थयोः सम्बन्धोयोग इत्याशयेन फलितमाह—अवयवार्थस्येति। अप्रख्यानाद्विति व्याचष्टे— अप्रतीतेरिति। पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीति `तस्य निवासः' `अदूरभवश्च' इति तद्धितो नैवोत्पद्यते किमनेन लुपो विधानेनेत्यर्थः। न दृश्येतेति। विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दोजनपदेषु प्रयुज्यते इति नार्थः सूत्रेणेत्यर्थः। प्रसङ्गात्पूर्वाचार्यपरिभाषितकमन्यदपि प्रत्याचष्टे– प्रधानेत्यादिना।

Satishji's सूत्र-सूचिः

TBD.