TBD.
पूर्वा समर्थविभक्तिरनुवर्तते। तस्य इति षष्ठीसमर्थातदूरभवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। विदिशायाः अदूरभवं नगरं वैदिशम्। हैमवतम्। चकारः पूर्वेषां त्रयाणाम् अर्थानाम् इह सन्निधानार्थः। तेन उत्तरेषु। चत्वारो ऽप्यर्थाः सम्बध्यन्ते।
TBD.
1062 विदिशाया अदूरभवं नगरं वैदिशम्..
1263 अदूरभवश्च। तस्येति तन्नाम्नि देशे इति चानुवर्तते। तस्य अदूरभव इत्यर्थे षष्ठ\उfffद्न्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः। नन्वत्र चकारः किमर्थ इत्यत आह–चकारेणेति। अदूरभव इति विघ्यनन्तरं प्रागुक्तास्त्रयोऽर्थाः पुनरुपस्थाप्यन्ते इत्यर्थः। किमर्थमित्यत आह–तेनेति। अन्यथा संनिहितत्वाददूरभव इत्येव उत्तरविधिष्वनुवर्तेतेति भावः। चातुरर्थिकत्वमिति। चतुरर्थ्यां भव इत्यर्थे द्विगोरध्यात्मादित्वाट्ठञ्। तद्धितार्थद्विगौ तु `द्विगोर्लुगनपत्ये' इति लुक्स्यात्। केचित्तु चतुर्णां सूत्राणामर्थाश्चतुरर्थाः, तत्र भवाश्चातुरर्थिका इत्याहुः।
1026 अदूर। अदूरमन्तिकम्। तत्र भवतीत्यदूरभवः। निपातनात्सप्तमीसमासः। चातुरर्थिकत्वामिति। चतुर्णामर्थानां समाहारश्चतुरर्थी। तत्र भवाश्चातुरर्थिकाः। अध्यात्मादित्तावट्ठञ्। चतुष्र्वर्थेषु भवा इति तद्धितार्थे द्विगौ तु `द्विगोर्लुगनपत्ये'इति ठञो लुक् स्यात्।
TBD.