Table of Contents

<<1-2-54 —- 1-2-56>>

1-2-55 योगप्रमाणे च तदभावे ऽदर्शनम् स्यात्

प्रथमावृत्तिः

TBD.

काशिका

पञ्चालाऽदयः संज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम्। तच्चावश्यम् एव अभ्युपगन्तव्यम्। योगप्रमाणे हि तदभावे ऽदर्शनं स्यात्। यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात् ततस् तदभावे ऽदर्शनम् अप्रयोगः स्यात्। दृश्यते च सम्प्रति वनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दाः, ततो ऽवसीयते नायं योगनिमित्तकः। किं तर्हि? रूढिरूपेणैव तत्र प्रवृत्तः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1278 प्रत्ययस्वीकारे बाधकमाह–योगप्रमाणे च। पञ्चालाऽङ्गवङ्गादिशब्देषु योगस्य=अवयवार्थस्य प्रमापकत्वे सति तदभावे=पञ्चालाङ्गादिक्षत्रियसम्बन्धाऽभावे संप्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्यते, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवरूढा इति युक्तमित्यर्थः। तदाह-यदि हि योगस्येति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.