Table of Contents

<<1-2-24 —- 1-2-26>>

1-2-25 तृषिमृषिकृशेः काश्यपस्य

प्रथमावृत्तिः

TBD.

काशिका

न क्त्वा सेट् 1-2-18 इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते। तृषि मृषि कृशि इत्येतेभ्यः परः क्र्वा प्रत्ययः सेट् काश्यपस्य आचार्यस्य मते वा न किड् भवति। तृषित्वा, त्र्षित्वा। मृषित्व, म्र्षित्व। कृशित्व, कर्शित्वा। कश्यपग्रहणं पूजार्थम्। वा इत्येव हि वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1594 तृषिमृषि। ञितृषा पिपासायां, मृष तितिक्षायां, कृश तनूकरणे। `नोपधा'दित्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम्। अञ्चेरिति। `उदितो वे'ति विकल्पप्राप्तावयमारम्भः। अञ्चित्वेति। `न क्त्वा से'डिति कित्त्वाऽभावान्नलोपो न। एवं चेह `नाञ्चेः पूजाया'मिति नलोपो नेति प्रसादकारोक्तिर्वृथेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.