Table of Contents

<<1-2-21 —- 1-2-23>>

1-2-22 पूङः क्त्वा च

प्रथमावृत्तिः

TBD.

काशिका

अन्यतरस्याम् इति न स्वर्यते। उतरसूत्रे पुनर् वा वचनात्। न सेटिति वर्तते। पूडश्च इट् विहितः किल्शः क्त्वानिष्ठयोः 7-2-50), पूङश्च (*7,2.51 इति। पूडः परो निष्ठाप्रत्ययः इत्वा च सेण् न किद् भवति। पवितः, पवितवान्। क्त्वाप्रत्ययसय न क्त्वा सेट् 1-2-18 इति सेद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम्। तथा चौक्तं नित्यम् अकित्त्वम् इडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणम् उत्तरार्थम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

858 पूङः क्त्वा च। `न क्त्वा से'डित्यतो न सेडित्यनुवर्तते। `असंयोगा'दित्यतः किदिति, `निष्ठा शीङित्यतो निष्टेति च। तदाह– पूङः क्त्वा निष्ठा चेत्यादि। ननु `न क्त्वा से'डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह- - क्त्वाग्रहणमुत्तरार्थमिति। तदेवोपपादयति– नोपधादित्यत्रेति। तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा। `पूङश्चे'त्येवोक्तौ तु `निष्ठा शी' ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः।

तत्त्वबोधिनी

703 पूङः क्त्वा च। `न क्त्वा से'डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह–उत्तरार्थमिति। क्त्वैवेति। नतु निष्ठा, चानुकृष्टत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.