Table of Contents

<<1-2-20 —- 1-2-22>>

1-2-21 उदुपधाद् भावाऽदिकर्मणोरन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

निष्ठा सेण् न कितिति वर्तते। उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेडन्यतरस्यां न किद् भवति। द्युतितत्मनेन, द्योतितमनेन। प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन। प्रमुदितः, प्रमोदितः। उदुपधातिति किम्? लिखितमनेन। भावाऽदिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति। सेटित्येव। प्रभुक्त ओदनः। व्यवस्थितविभाषा चैयम्। तेन शब्विकरणानाम् एव भवति। गुध परिवेष्टने, गुधितम् इत्यत्र न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

863 उदुपधाद्भावादिकर्मणोः। भावे उदाहरति– मुदितमित्यादि। आदिकर्मण्युदाहरति- - प्रद्युतितः प्रद्योतितः साधुरिति। आदिकर्मणि कर्तरि क्तः। उदुपधा\उfffद्त्क , विदितमिति।`विद ज्ञानेट इति वेत्तेः रूपम्। गुध्यतेर्गुधितमिति। `गुध परिवेष्टने'दिवादिः सेट्कः।

तत्त्वबोधिनी

708 रुचितमिति। रुच दीप्तौ। `गत्यर्थाऽकर्मके'ति कर्तरि क्तः। क्रुष्टमिति। क्रुश आह्वाने रोदने च। व्रश्चादिना षत्वे ष्टुत्वम्। गुधितमिति। गुध परिविष्टने दिवादिः।

Satishji's सूत्र-सूचिः

TBD.