Table of Contents

<<1-2-12 —- 1-2-14>>

1-2-13 वा गमः

प्रथमावृत्तिः

TBD.

काशिका

लिङ्सिचावात्मनेपदेषु इति वर्तते। गमेर्धातोः परु लिङ्सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः। संगंसीष्ट, संगसीष्ट। सिचः खल्वपि समगंस्त्, समगत। कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तौपदेशवनतितनोत्यादीनाम्6-4-37 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

524 वा गमः। `इको झल्' इत्यतो झलिति, `लिङ्सिचावात्मनेपदेषु' इत्यतो लिङ्?सिचाविति, `असंयोगाल्लिट्' इत्यतः किदिति चानुवर्तते। तदाह– गमः परावित्यादि। समगतेति। लुङि रूपम्। सिचः कित्तवपक्षे `अनुदात्तोपदेशे' ति मकारलोपे `ह्यस्वादङ्गादि'ति सिचो लुक्। समृच्छते इति। `ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु' इति तौदादिकस्य रूपम्। अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति– समृच्छिष्यते इति। विदिप्रच्छिस्वरतीनामिति। सम इत्यनुवर्तते। संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः। वेत्तेरिति। लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः। व्याख्यानादिति भावः।

तत्त्वबोधिनी

447 `असंयोगाल्लिट्कि'त्यतः किदनुवर्तते , `इको झ'लित्यतो झल्ग्रहणं, `लिङ्सिचौ' इत्यतो लिङ्सिचाविति चानुवर्तते। कित्त्वपक्षे `अनुदात्तोपदेशे' ति मलोपः। `समृच्छिष्यते' इति लृटः प्रयोगस्तु तौदादिकऋच्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम्। ग्रामं सङ्गच्छतीति। `तच्चैक्यं समगच्छते'त्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ्। एकमेवेक्यम्। स्वार्थे ष्यञ्। विदिप्रच्छि। परस्मैपदसाहचर्यादाह— वेत्तेरेवेति।

Satishji's सूत्र-सूचिः

TBD.