TBD.
ऋवर्णान्ताद् धातोः परौ लिङ्सिचौ आत्मनेपदेशु झलादी कितौ भवतः। कृषीष्ट। हृषीष्ट। सिचः खल्वपि अकृत। अहृत। झलित्येव। वरिषीष्ट। अवरिष्ट। वृऋतो वा 7-2-38 अवरीष्ट।
TBD.
546 ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि. भृषीष्ट. भृषीयास्ताम्. अभार्षीत्..
205 आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते– उश्च। `लिङ्गिचावात्मनेपदेषु' इति सूत्रमनुवर्तते। `इको झ'लित्यतो झलिति च। तदाह–ऋवर्णादिति। भृषीष्टेति। कित्त्वान्न गुणः। अभार्षीदिति। परस्मैपदे सिचि वृद्धौ रपरत्वम्।
177 उश्च। `इको झ'लित्यतो झल्ग्रहणं , `लिङ्सिचौ' इति पूर्वसूत्रं चानुवर्तते। तदाह– ऋवर्णादित्यादि। अभार्षीदिति। `सिचि वृद्धि'रिति वृद्धिः।
वृत्ति: ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। When used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।
Example continued from 3-4-107.
कृ + सीस्त As per 1-2-12 the affix “सीस्त” is a कित् here. Hence 1-1-5 stops 7-3-84
= कृ + षीष् त् 8-3-59 (applied twice)
= कृषीष्ट 8-4-41