Table of Contents

<<1-2-10 —- 1-2-12>>

1-2-11 लिङ्सिचौ आत्मनेपदेषु

प्रथमावृत्तिः

TBD.

काशिका

परतः कितौ भवतः। भित्सीष्ट, भुत्सीष्ट। सिचि खल्वपिअभित्त, अबुद्ध। इकः इत्येव। यक्षीष्ट, अयष्ट। सम्प्रसारणं हि स्यात्। आत्मनेपदेषु इति किम्? अस्राक्षित्। अद्राक्षीत्। सृजिदृशोर् झल्यमकिति 6-1-58 इत्यमागमो न स्यात्। हलन्तातित्येव। चेषीष्ट, अचेष्ट। गुणो न स्यात्। झलित्येव वर्तिषीष्ट, अवर्तिष्ट। गुणो न स्यात्। लिङ्सिचौ इति किम्? द्वेष्टा द्वेक्ष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

592 इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि. धुक्षीष्ट..

बालमनोरमा

143 लिङ्। इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते। `असंयोगा'दित्यतः किदिति च। इक इति सामीप्ये षष्ठी, हलि अन्वेति। तदाह–इक्समीपादित्यादिना। आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात्। इकः किम् ?। `वह्'वक्षीष्ट। सति तु कित्त्वे `वचिस्वपी'ति संप्रसारणं स्यात्। आत्मनेपदेषु किम् ?। अद्राक्षीत्। इह कित्त्वे सति `सृजिदृशोर्झल्यमकिती'त्यम्न स्यात्। अतिप्तेति। लुङस्तादेशे, च्लिः, सिच्। `झलो झली'ति लोपः। आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः। अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह– तितेपे इति। इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः। सेट्कोऽयमिति सूचयति– तेपितेति। तेपिषीष्ट। अतेपिष्ट। ष्टिपृधातोस्तु `धात्वादेः षः स' इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह– तिष्टिप इति। `शर्पूर्वाः खयः' इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः। कित्त्वान्न गुणः। तिष्टेप इति। ष्टेपृधातो रूपम्। तेपृ कम्पने चेति। चात्क्षरणे। वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पू?रवत्रास्य पाटस्त्यक्तुं शक्यः। केचित्तु `देपृ'इति वर्गतृतीयादिं पठन्ति। चात्कम्पने गतौ चेति। अनुक्तसमुच्चयार्थश्चकार इति भाव-। एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ`क्पाठाल्लभ्यते। अर्थभेदादिति। ग्लेपृ दैन्ये' इति पूर्वं पठितम्। #इह त्वर्थभेदात्पुनः पाठः। अन्यथा `ग्लेपृ दैन्ये कम्पने गतौ चे'ति गौरवं स्यादिति भावः। त्रपूषिति। ऊकारः षकारश्च इत्। अदुपधः।

तत्त्वबोधिनी

118 `इको झल्', `हलन्ताच्च' इति वर्तते। `असंयेगाल्लिट् कित्' इत्यतः किदिति च। तदाह– इक्समीपादित्यादि। इकः किम् ?। यक्षीष्ट। सतिकित्त्वे संप्रसारणं स्यात्। आत्मनेपदेति किम् ?। अद्राक्षीत्। कित्त्वे सति `सृजिदृशोर्झल्यमकिति' इत्यम्न स्यात्। आत्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य। लिङः परत्वाऽसंभवात्। तेपृ कम्पनेच। चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः। केचित्तु `तिपृ देपृ' इति पठन्ति। टुवेपृ। वेपथुः। केपृ गेपृ ग्लेपृ च। योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते। तदाह–चात्कम्पने गतौ चेति। योगविभागसामथ्र्यादेवार्थद्वयलाबे चकारो व्यर्थ इत्यन्ये। पुनः पाठ इति। दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः। तृ?फल। तरतेरकारस्य गुणशब्देन भावितत्वात्फलभजोर्वैरूप्यसंपादकादेशादित्वात्तरपतेस्त्वेकहल्मध्यस्थत्वाऽभावादप्राप्ते विधिरयम्। तेरतुः। तेरुः। फेलतुः। फेलुः। भेजतुः। भेजुः। अबि शब्दे। अस्मात् `गुरोश्च हलः' इति अप्रत्यये अम्बाशब्दः। तिरुआः–अम्बाः= अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीहौ `शेषाद्विभाषे'ति कप्रत्यये त्र्यम्बक इत्येके। केचित्तु त्र#ईणि अम्बकानि नेत्राणि यस्येतिविगृह्णन्ति। अभिरभी इति। `सर्वधातुभ्योऽसु' न्नित्यधिकारे `उदके नुम्-भौ चे'ति वक्ष्यमाणत्वाद्धात्वन्तरेणापि अम्भः– शब्दः सिध्यतीति बोध्यम्। अम्भः– तोयम्। तस्यापत्यम् आम्भिः– भीष्मः। `अम्भसो लोपश्चे'ति बाह्वादिपाठादिञि सलोपः। तद्वीजं त्विति। पूर्वसवर्णप्रवृत्तेः, षत्वाऽप्रवृत्तेश्च बीजमित्यर्थः।

Satishji's सूत्र-सूचिः

वृत्ति: इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। In आत्मनेपदम्, a लिँङ् affix or the affix सिँच् shall be considered a कित् (as having ककार: as a इत्) if the affix begins with a झल् letter and follows a consonant adjoining a इक् letter.

उदाहरणम् – धुक्षीष्ट derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।

दुह् + लिँङ् (आशिषि) 3-3-173
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix “त” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= दुह् + सीयुट् त 3-4-102, 1-1-46
= दुह् + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix “सीय् त” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= दुह् + सीय् सुट् त 3-4-107, 1-1-46
= दुह् + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:। Note: 7-2-10 stops 7-2-35.
= दुह् + सीस्त 6-1-66. As per 1-2-11 the affix “सीस्त” is a कित् here. Hence 1-1-5 stops 7-3-86
= दुघ् + सीस्त 8-2-32
= धुघ् + सीस्त 8-2-37
= धुघ् + षीष् त् 8-3-59 (applied twice)
= धुघ् + षीष् ट् 8-4-41
= धुक्षीष्ट 8-4-55