Table of Contents

<<1-1-7 —- 1-1-9>>

1-1-8 मुखनासिकावचनो ऽनुनासिकः

प्रथमावृत्तिः

TBD.

काशिका

मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सो ऽनुनासिकसंज्ञो भवति। आङो ऽनुनासिकश् छन्दसि 6-1-126। अभ्र आं अपः। गभीर आं उग्रपुत्रे। च न आं इन्द्रः। मुखग्रहनं किम्? अनुस्वारस्यैव हि स्यात्। नासिकाग्रहणं किम्? कचटतपानां मा भूत्। अनुनासिकप्रदेशाः आङो ऽनुनासिकश् छन्दसि 6-1-26 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

10 ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्. (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्). अकुहविसर्जनीयानां कण्ठः. इचुयशानां तालु. ऋटुरषाणां मूर्धा. ऌतुलसानां दन्ताः. उपूपध्मानीयानामोष्ठौ. ञमङणनानां नासिका च. एदैतोः कण्ठ तालु. ओदौतोः कण्ठोष्टम्. वकारस्य दन्तोष्ठम्. जिह्वामूलीयस्य जिह्वामूलम्. नासिकानुस्वारस्य. यत्नो द्विधा - आभ्यन्तरो बाह्यश्च. आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्. तत्र स्पृष्टं प्रयतनं स्पर्शानाम्. ईषत्स्पृष्टमन्तःस्थानाम्. ईषद्विवृतमूष्मणाम्. विवृतं स्वराणाम्. ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्. प्रक्रियादशायां तु विवृतमेव. बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्वरतिश्चेति. खरो विवाराः श्वासा अघोषाश्च. हशः संवारा नादा घोषाश्च. वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः. वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः. कादयो मावसानाः स्पर्शाः. यणोऽन्तःस्थाः. शल ऊष्माणः. अचः स्वराः. -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः. -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः. अं अः इत्यचः परावनुस्वारविसर्गौ..

सिद्धान्तकौमुदी

<< 1-2-321-1-9 >>
९ मुखसहितनासिकयोर्च्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । ऌवर्णस्य द्वादश । तस्य दीर्घाभावात् । एचामपि द्वादश । तेषां ह्रस्वाभावात् ॥

बालमनोरमा

11 तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽच इति स्थितम्। अथाऽनुनासिकसंज्ञामाह–मुखनासिका। मुखसहिता नासिका मुखनासिका। शाकपार्थिवादित्वात्सहितपदस्य लोपः। उच्यते उच्चार्यते इति वचनः। कर्मणि ल्युट्। मुखनासिकया वचन इति `कर्तृकरणे कृता बहुलम्' इति तृतीयासमासः। तदेतदाह– मुखसहितेत्यादिना। मुखं च नासिका चेति द्वन्द्वस्तु न। तथा सति `द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति समाहारद्वन्द्वनियमात् `स नपुंसक'मिति नपुंसकत्वे `ह्यस्वो नपुंसके प्रातिपदिकस्य' इति ह्यस्वत्वे `मुखनासिकवचन' इत्यापत्तेः। ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः?, नेत्याह–तदित्थमिति। इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत्–इत्थं=वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः। अष्टादश भेदा इति। अष्टादश प्रकारा इत्यर्थः। दीर्घाभावादिति। तथा च उदात्तलृकारदीर्घः, अनुदात्तलृकारदीर्घः, स्वरितलृकारदीर्घः। ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्?भेदानामभावे सति ह्यस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः। लृकारस्य दीर्घाऽभावे होतृ लृकार इत्यत्र सवर्णदीर्घे कृते होतृ?कार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम्। ह्यस्वाभावादिति। यद्येचो ह्यस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ\उfffदेरन्, नतु दीर्घाः, गौरवात्। अत एचो ह्यस्वा न सन्तीति विज्ञायते। एवं च ह्यस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः।

तत्त्वबोधिनी

11 मुखनासिका। मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यादत आह-मुखसहितेति। नासिकयोच्चार्येति। फलितार्थकथनमिदम्। उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्यास्तीति विग्रहः॥

Satishji's सूत्र-सूचिः

TBD.