Table of Contents

<<1-1-6 —- 1-1-8>>

1-1-7 हलो ऽनन्तराः संयोगः

प्रथमावृत्तिः

TBD.

काशिका

भिन्नजातीयैरज्भिरव्यवहितः श्लिष्टौच्चारिता हलः संयोगसंज्ञा भवन्ति। समुदायः संज्ञी। जातौ चेदं बहुवचनम्। तेन द्वयोर् बहूनां च संयोगसंज्ञा सिद्धा भवति। अग्निः इति गनौ। अश्वः इति शवौ। कर्णः इति रणौ। इन्द्रः, चन्द्रः मन्द्रः इति नदराः। उष्ट्रः, राष्ट्रम्, भ्राष्ट्रम् इति षटराः। तिलान्स्त्र्यावपति इति नसतरयाः, नतसतरया वा। हलः इति किम्? तितौच्छत्रम् संयोगान्तस्य लोपः 8-2-23 इति लोपः स्यात्। अनन्तराः इति किम्? पचति पनसम् स्कोः संयोगाऽद्योरन्ते च 8-2-29 इति लोपः स्यात्। संयोगप्रदेशाः सम्योगान्तस्य लोपः 8-2-23 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

13 अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥

बालमनोरमा

32 हलोऽनन्तराः संयोगः। `अन्तर'शब्दोऽत्र व्यवधाने वर्तते। `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरः। व्यवधानं च विजातीयेनैव। अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः। `नञोऽल्त्यर्थाना'मिति विद्यमानपदस्य लोपः। तदाह–अज्भिरित्यादिना। तत्र हलौ च हलश्च हल इत्येकशेषः। तेन द्वयोरपि संयोगसंज्ञा लभ्यते। ततश्च शिक्षेत्यत्र `गुरोश्च' हलः इत्यप्रत्ययः सिध्यति। अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच। नतु प्रत्येकम्। तथा सति `सुदृषत्प्रासाद' इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः। यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोद्र्वयोः संयोग9संज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम्।

तत्त्वबोधिनी

378 हलोऽनन्तराः संयोगः। तध्वर्थमेकाक्षरायां संज्ञायां कर्तव्यायां `संयोग' इति महासंज्ञाकरणमन्वर्थसंज्ञाज्ञापनार्थं-संयुज्यन्तेऽस्मिन्समुदाये वर्णा इति। तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृध्द्या दिसंज्ञावत्प्रत्येकम्। तथाहि सति `दृषद्विभर्ती'त्यत्र बकारसंनिधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात्। `निर्याया'दित्यत्र यकारः संयोग इति `वान्यस्य संयोगादे'रित्येत्त्वं स्यात्। सिद्धान्ते तु `अचो रहाभ्या'मिति द्वित्वे सत्यपि तस्याऽसिद्धत्वादेत्त्वमत्र न भवति। `हल' इति जातौ बहुवचनम्, `जात्याख्यायामेकस्मिन्बहुवचन'मिति वचनात्। तेन द्वयोरपि संयोगसंज्ञा भवतीति `शिक्षे'त्यादौ `गुरोश्च हलः' इत्यप्रत्ययः सिध्यति। यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां चाऽविशेषेण संज्ञेति स्थितमाकरे। यदि तु बहूनामेव स्यात्तर्हि `गोमान्तकरोती'त्यत्र मतुपस्तकारस्य संयोगान्तलोपो न स्यादिति दिक्। हलः किम् ?, तितौभ्याम्। अत्र `तनोतेर्डौः सन्वच्चे'ति `डौ'प्रत्ययः। सन्वद्भावाद्द्रित्वं, `सन्यतः' इति इत्वं च। व्यस्तोच्चारणसामर्थाद्गुणाऽबावः। यदि ह्रचोरप्यनन्तरयोः संयोहसंज्ञा स्यात्तर्हि इह `संयोगान्तस्ये'त्युकारलोपः स्यात्। अनन्तरा इति किम् ? पनसम्। यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हि `स्को'रिति सलोपः स्यात्॥ तत्त्वबोधिन्यां संज्ञाप्रकरणम्॥

Satishji's सूत्र-सूचिः

TBD.