Table of Contents

<<6-1-25 —- 6-1-27>>

6-1-26 विभाषा ऽभ्यवपूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

श्यः इति वर्तते। अभि अव इत्येवं पूर्वस्य श्यायतेर् निष्थायां विभाषा सम्प्रसारणम् भवति। अभिशीनम् अभिश्यानम्। अवशीनम्, अवश्यानम्। द्रवमूर्तिस्पर्शविवक्षायाम् अपि विकल्पो भवति। अभिशीनं घृतम्, अभिश्यानं घृतम्। अवशीनं मेदः, अवश्यानं मेदः। अभिशीतो वायुः, अभिश्यानः। अवशीतमुदकम् , अवश्यानमुदकम्। सेयमुभयत्रविभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयोजनम्, सम्भिश्यानं, समवश्यानम् इत्यत्र मा भूतिति केचिद् व्यचक्षते , नकिलायम् अभ्यवपूर्वः समुदायः इति यो ऽत्र अभ्यवपूर्वः समुदायस्तदाश्रयो विक्लपः कस्मान् न भवति? तस्मातत्र भवितव्यम् एव। यदि तु न इष्यते ततो यत्नानतरमास्थेयम् अस्माद् विह्बाषाविज्ञानात्। व्यवस्थेयम्। पूर्वग्रहणस्य च अन्यत् प्रयोजनं वक्तव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

832 विभाषा। `श्यैङ' इति शेषः। संप्रसारणं वा स्यादिति। शेषपूरणमिदम्। द्रवमूर्तिस्पर्शयोर्नित्यं संप्रसारणे प्राप्ते, ततोऽन्यत्राऽप्राप्ते विभाषेयम्। अभिश्यानं घृतमिति। अत्र द्रवमूर्तौ संप्रसारणविकल्पः। अवश्यानः अवशीनो वृश्चिक इति। अत्र द्रवमूर्तिस्पर्शाऽभावेऽपि संप्रसारणविकल्पः। समवश्यान इत्यत्रापि संप्रसारणविकल्पमाशङ्क्याऽऽह - व्यवस्थितेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.