Table of Contents

<<1-1-21 —- 1-1-23>>

1-1-22 तरप्तमपौ घः

प्रथमावृत्तिः

TBD.

काशिका

तरप् तमपित्येतौ प्रत्ययौ घसंज्ञौ भवतः। कुमारितरा। कुमरितमा। ब्राह्मणितरा। ब्राह्मणितमा। घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः 6-3-43 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1223 एतौ घसंज्ञौ स्तः..

बालमनोरमा

तरप्तमपौ घः। प्रथमस्य प्रथमपादे सूत्रमिदम्। आतिशायनिकप्रत्ययप्रकरणान्ते, `पितौ घः' तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति। तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः। तेन `अल्पाच्तरं' `लोपस्च बलवत्तरः' इत्यादि सिद्धम्। एते, तिङ्, अव्यय–एषां चतुर्णां द्वन्द्वः। `किमेत्तिङव्ययप्रकृतिको घः' इति मध्यमपदलोपी समासः। फलितमाह–किम एदन्तादित्यादिना। एभ्य इत्यर्थः। किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने। एषामतिशयेनाढ\उfffद् इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात्। जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम्। प्राह्णे तमामिति। प्राह्ण=पूर्वाह्णः। `प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य'मित्यमरः। अतिशयिते पूर्वाह्णे इत्यर्थः। पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः। अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात्। तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः। पचतितमामिति। अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैव `प्रशंसायां रूप'विति सूत्रभाष्ये प्रपञ्चितत्वात्। अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः। उच्चैस्तमामिति। `आशंसती'त्यध्याहार्यम्। अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः। अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य। उच्चैस्तमस्तरुरिति। अतिशेन उच्चैस्तरुरित्यर्थः। अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः। `किंतमा'मित्यादौ `यस्येति चे'ति लोपं परत्वाद्बाधित्वा ह्यस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम्। सति तु तस्मिन् `निरनुबन्धकग्रहणे न सानुबन्धकस्ये'ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि `आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम्।

तत्त्वबोधिनी

1499 तरप्तमपौ घः। अस्मिन्नेवाऽऽतिशायनिकप्रकरणे `तादौ घः' `पितौ घः'इति वा वक्तव्ये प्रकरणान्तरेण गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञायपति। तेन `अल्पाच्तरं', लोपश्च बलवत्तरः' इत्यादि सिद्धम्। अल्पाजेव ह्रल्पाचतरम्। न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप्। अन्यथा `शिवकेशवौ'इथ्यादिसिद्धावपि `शङ्खदुन्दुभिवीणाः'इत्यादि न सिध्येदित्याहुः।

Satishji's सूत्र-सूचिः

TBD.