Table of Contents

<<1-4-5 —- 1-4-7>>

1-4-6 ङिति ह्रस्वश्च

प्रथमावृत्तिः

ङिति 7/1, ह्रस्वः 1/1, च (-)। अनु. - वा, नेयङुवङ्स्थानावस्त्री, यू स्त्राख्यौ नदी॥
हिन्दी – [ह्रस्व:] ह्रस्व इकारान्त उकारान्त जो स्त्रीलिङ्ग के वाचक शब्द, तथा इयङ् उवङ् स्थानी जो ईकारान्त ऊकारान्त स्त्री की आख्यावाले शब्द, उनकी [च] भी [ङिति] ङित् प्रत्यय परे रहते विकल्प से नदी संज्ञा होती है। ह्रस्व इकारान्त उकारान्त शब्दों की नदी संज्ञा किसी सूत्र से प्राप्त नहीं थी, सो ङित् प्रत्यय परे रहते विकल्प से विधान कर दिया। तथा इयङ् उवङ् स्थानी ईकारान्त ऊकारान्त शब्दों की भी नित्य नदी संज्ञा का प्रतिषेध किया था, सो उनकी भी विकल्प से नदी संज्ञा का विधान इस सूत्र में करते हैं॥

काशिका

दीर्घस्य नदीसंज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति वा विधीयते। ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङुवङ्स्थानौ च यू वा नदी संज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्री इत्येव, स्त्रियै। स्त्र्याख्यौ इत्येव, अग्नये। वायवे। भानवे।।

Ashtadhyayi (C.S.Vasu)

When a case-affix having an indicatory ङ् (ङित्) follows, then feminine words ending in short इ and उ are optionally termed नदी, as well as feminine nouns in long ई and ऊ which admit of इयङ् and उवङ्; but not so the word स्त्री, which is always नदी.

लघु

223 इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ च इवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः 2. मतेः 2॥

बालमनोरमा

294 इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह–ङिति ह्यस्वश्च। अत्र चकाराद्वाक्यद्वयं, तथा हि `यूस्त्र्याख्यौ नदी'त्यनुवर्तते। ईश्च ऊश्च यू। `दीर्घाज्जसि चे'ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः। स्त्रियमेवाचक्षाते स्त्र्याख्यौ। नित्यस्त्रीलिङ्गाविति यावत्। `नेयङ्वङ्स्थानावस्त्री'ति सूत्रं नञ्वर्जमनुवर्तते। इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः। इयङुवङ्प्राप्तियोग्यावित्यर्थः। `वामी'त्यतो `वे'त्यनुवर्तते। ततश्च `इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे' इति वाक्यमेकं संपद्यते। पुनरपि `यू' इत्यनुवर्तते। इश्च उश्च यू। `ह्यस्व' इति तत्र प्रत्येकमन्वेति। स्त्र्याख्याविति चानुवर्तते। तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे' इति वाक्यमेकं संपद्यते। पुनरपि `यू' इत्यनुवर्तते। इश्च उश्च यू। `ह्यस्व' इति तत्र प्रत्येकमन्वेति। स्त्र्याख्याविति चानुवर्तते। तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात्। `वामी'त्यतो वेति चानुवर्तते। ततश्च `स्त्रीलिङ्गौह्यस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे' इति वाक्यमेकं संपद्यते।तदाह–इयङुवङ्स्थानाविति। द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम्। तत्र ह्यस्वयोकप्राप्ते दीर्घयोस्तु `नेयङुवङ्स्थाना'विति निषेधादप्राप्ते नदीत्वे विभाषेयम्। नदीत्वपक्षे आह– आण्नद्या इति। मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह–मत्यै इति। मतये इति। नदीत्वाऽभावपक्षे `शेषो घ्यसखी'ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम्। नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण्। मत्याः। नदीत्वाऽभावे- मतेः। आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः। मतीनाम्। ङौ विशेषमाह– नदीत्वपक्षे इति। नदीत्वपक्षे घित्वाऽभावात् `अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वं न भवति। किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः।

तत्त्वबोधिनी

256 ङिति ह्यस्वश्च। `वामी'ति सूत्राद्वेत्यनुवर्तते। अप्राप्तविभेषेयं। ह्यस्वयोरप्राप्तावितरयोस्तु `नेयङुवाङ्स्थाना'विति निषेधप्राप्तावारम्भात्। इहे`इयङुवङ्स्थानौ'`स्त्रीशब्दभिन्नौ'`नित्यस्त्रीलिङ्गा'विति त्रीणि ईदुतोर्विशेषणानि, ह्यस्वयोस्तु `स्त्रिया'मित्येव विशेषणं, नत्तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभ-तीनामुभयलिङ्गानां पटुमृदुप्रभृतीनां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्। कैयटमते हि तेषां नित्यस्त्रीत्वाऽभावात्, ह्यस्वांशे नित्यग्रहमव्यावर्त्त्याऽलाभाच्च। अतएवाऽऽख्याग्रहणं विहाय स्त्रीशब्दमात्रं निष्कृष्य संबध्यते, तदेतदाह—-ह्यस्वौ च इउवर्णो स्त्रियामिति।

Satishji's सूत्र-सूचिः

124) ङिति ह्रस्वश्च 1-4-6

वृत्ति: इयँङुवँङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इवर्णोवर्णौ स्त्रियां वा नदीसञ्ज्ञौ स्तो ङिति । The vowels long “ई” and long “ऊ” that are always feminine and which can take “इयँङ्” and “उवँङ्” replacements, except for the word “स्त्री”, and the short “इ” and short “उ” ending words in feminine, get the “नदी” designation optionally when followed by a “ङित्” affix.

उदाहरणम् – मति + ङे – मति-शब्दः gets नदी सञ्ज्ञा optionally by 1-4-6 . Example continued under 7-3-112