Table of Contents

<<8-4-25 —- 8-4-27>>

8-4-26 छन्दस्यृदवग्रहात्

प्रथमावृत्तिः

TBD.

काशिका

पुर्वपदातिति वर्तते। ऋकारान्तादवग्रहात् पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये। नृमणाः। पितृयाणम्। अत्र हि नृमणाः, पितृयाणम् इति ऋकारो ऽवगृह्यते। अवग्रहग्रहणं किमर्थम् उच्यते, यावता संहिताधिकार आ अध्यायपरिसमाप्तेः इत्युक्तम्? विषयोपलक्षणार्थम् अवग्रहग्रहणम्। अवगृह्यमाणाद् यथा स्यात्, अनवगृह्यमाणात् मा भूत्। अपदान्ते च अवग्रहो न अस्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.