Table of Contents

<<8-4-32 —- 8-4-34>>

8-4-33 वा निंसनिक्षनिन्दाम्

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गातित् वर्तते। निंस निक्ष निनद इत्येतेषां नकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

660 वा निंस। `कृत्यचः इत्यतः कृतीत्यनुवृत्तम्। अच इति च निवृत्तम्। तदाह– एषां नस्येति।

तत्त्वबोधिनी

550 कृति पर इति।

Satishji's सूत्र-सूचिः

TBD.