TBD.
हलः इति वर्तते, तेन इह सामर्थ्यात् तदन्तविधिः। इजादेः सनुमः हलन्ताद् धातोः विहितो यः कृत्, तत्स्थसय् नकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य णकारो भवति। प्रेङ्खणम्। प्रेङ्ग्खणम्। प्रेङ्गणम्। परेङ्गणम्। प्रोम्भणम्। परोम्भणम्। सिद्धे सत्यारम्भो नियमार्थः, इजादेरेव सनुमः, नान्यस्मातिति। प्रमङ्गनम्। परिमङ्गनम्। हलः इत्यधिकाराद् ण्यन्ते नित्यं विध्यर्थम् एतन् न भवति।
TBD.
–
659 इजादेः। `णेर्विभाषा' इति निवृत्तम्। `कृत्यच' इत्यनुवर्तते, `हलश्चेजुपधा'दित्यतो हल इति च। प्रकृतिविशेषणत्वात्तदन्तविधिः। तथा च सनुमो हलन्तादिजुपदात् परस्य कृन्नस्य णः स्यादिति लभ्यते। एवं च प्रेङ्खणीयमित्यादौ `कृत्यचः' इत्येव सिद्धेरिदं नियमार्थमित्याह– सनुमश्चेदिति। कृत्स्थस्यैवेत्यनन्तरं `णत्व'मिति शेषः। प्रेङ्खणीयमिति। इखधातुरिदित्त्वात्सनुम्। `इवि प्रीणने' इति धातोर्ल्युटि तस्याऽनादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाच्चेत्यत आह- - नुम्?ग्रहणमित्यादि। अनुस्वारश्च सर्व एव गृह्रते, न तु नुम्?स्थानिक एव, अविशेषात्। तदाह– इह त्विति। प्रोम्भणमिति। इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुम्?स्थानिकानुस्वारवानिति भावः।
549 इजादेः सनुमः। `कृत्यचः' इत्येव सिद्धे नियमार्थमिदमित्याह- - सनुमश्चेदित्यादि। इह `हल' इत्यनुवृत्तं तदन्तपरं न तु तदादिपरम्। इजादेर्हलादित्वाऽसंभवात्। तदाह— हलन्तादिति। विहित इति। यदि तु विहितविशेषणं न व्याख्यायेत तर्हि नियमार्थता न लभ्येत्, णिजन्ताद्विहितस्यापि कृतस्थनकारस्य णिलोपे कृते हलन्तात्परत्वेन `णेर्विभाषे'ति विकल्पं बाधितुं विधेः संभवात्। इष्टापत्तौ तु अणिजन्तप्रकृतिकाऽनीयप्र्रत्ययान्तं प्रेङ्खणीयमित्याद्युदाहरणं न स्यात्, किं तु णिजन्तप्रकृतिकमेवोदाहरणं स्यात्। किं अस्य सूत्रस्य नियमार्थत्वाऽभावात्प्रमङ्गनीयमित्यत्र `कृत्यचः' इत्यनेन णत्वं स्यात्, अतो विहितविशेषणमवश्यं स्वीकार्यमिति दिक्। नन्वेवमपि नियमार्थता न युज्यते। प्रेन्वनमित्यत्र विध्यर्थत्वसंभवात्, नुम्नकारेण व्यवधानात् `कृत्यचः' इत्यस्याऽप्राप्तेरित्यत आह—नुम्ग्रहणमिति। `अटुकुप्वाङि'ति सूत्र इवाऽत्रापि नुमाऽनुस्वारो लक्ष्यत एति विध्यर्थत्वमिह न शङ्कनीयमिति भावः। प्रोम्भणमिति। उम्भ पूरण इत्यस्माद्भावे ल्युट्। `कृत्यचःर' इत्यतोऽनुवर्तनादाह–
TBD.