TBD.
भा भू पू कमि गमि पयायी वेप इत्येतेषाम् उपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति। भा प्रभानम्। परिभानम्। भू प्रभवनम्। परिभवनम्। पू प्रपवनम्। परिपवनम्। पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्। पूङो हि भवत्येव णत्वम्, प्रपवणं सोमस्य इति। कमि प्रकमनम्। परिकमनम्। गमि प्रगमनम्। परिगमनम्। प्यायी प्रप्यायनम्। परिप्यायनम्। वेप प्रवेपनम्। परिवेपनम्। ण्यन्तानां भादीनाम् उपसङ्ख्यानं कर्तव्यम्। प्रभापनम्। परिभापनम्।
TBD.
–
661 न भाभू। प्रभानीयमिति। इह `कृत्यचः' इति प्राप्तं णत्वं नेति भावः। णत्वप्रकरमोपरीति। इदं `चक्षिङः ख्या'ञिति सूत्रे भाष्ये स्पष्टम्। प्रख्यानीयमिति। इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् `कृत्यचः' इति णत्वं नेति भावः।
551 * ण्यन्तभादीनामुपसङ्ख्यानम्। ण्यन्तभादीनामिति। ण्यन्तस्य प्रकृत्यन्तरत्वादप्राप्ते वचनम्। `हेरचङी'ति सूत्रे अचङीति पर्युदासेन `प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहण'मिति ज्ञापनादेतत्सिद्धमिति केचिदाहुस्ततद्रभसात्। ज्ञापनं तु कुत्वमात्रविषयकमिति भाष्यादौ सिद्धान्तितत्वात्।
TBD.