TBD.
अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थात् निमित्तादुत्तरस्य णकार आदेशो भवति। प्रहण्यते। परिहण्यते। प्रहणनम्। परिहणनम्। अत्पूर्वस्य इति किम्? प्रघ्नन्ति। परिघ्नति। तपरकरणं किम्? चिणि प्राघानि। पर्यघानि।
TBD.
–
नन्विह कथं न णत्वं, भिन्नपदस्थत्वेऽपि `एकाजुत्तरपदे णः' इति णत्वस्य दुर्वारत्वात्, कृते।ञप्यल्लोपे तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकाच्त्वात्, स्थानिवत्त्वाऽभावेऽपि `प्रातिपदिकान्ततुम्विभक्तिषु चे'त्यस्य `कुमति चे'त्यस्य वा दुर्वारत्वादिति प्राप्ते तद्वारणार्थं `हन्तेरत्पूर्वस्ये'ति सूत्रं विभज्य व्याचष्टे हन्तेः। `रषाभ्यां नो णः' इत्यनुवर्तते। `उपसर्गादसमासेऽपी'त्यत उपसर्गादित्यनुवर्तते। तात्स्थ्यात्ताच्छब्द्यम्। उपसर्गस्थादिति लभ्यते। तच्च रषयोः प्रत्येकमन्वेति। तदाह- उपसर्गस्थान्निमित्तादित्यादिना। निमित्तशब्देन रेफः षकारश्च विवक्षितः। प्रहण्यादिति। अत्र भिन्नपदस्थात्वादप्राप्ते णत्वे वचनम्।
च। `उपसर्गा'दिति तु निवृत्तम्। हन्तेरत्पूर्वस्य नस्य णः स्यादिति लभ्यते। सिद्धे सत्यारम्भो नियमार्थस्तदाह–हन्तेरत्पूर्वस्यैवेत्यादिना। प्रघ्नन्तीति। हन्तेर्लट्, झिः, झोऽन्तः, शप्, लुक् `गमहने'त्युपधालोपः। `हो हन्तेः' इति कुत्वम्। प्रघ्नतीति रूपम्। अत्र उपसर्गस्थरेफात्परत्वात् `हन्तेः' इत्यनेन प्राप्तं णत्वम् `अत्पूर्वस्ये'ति नियमान्न भवति। `वृत्रघ्न' इत्यत्र `प्रातिपदिकान्ते' त्यादिणत्वं निवर्तते। ननु `प्रातिपदिकान्तनुम्विभक्तिषु' च, `एकाजुत्तरपदे णः', `कुमति च', `हन्तेरत्पूर्वस्ये'ति सूत्रपाठक्रमः। ततश्च `अनन्तरस्य विधि'रिति न्यायेन `अत्पूर्वस्ये'ति नियमेन `प्रघ्नन्ती'त्यत्र `हन्ते'रित्यव्यवहितणत्वमेव निवर्तेत, नत्वन्यदित्यत आह–योगेति। यदि `अत्पूर्वस्ये'त्यनेन `हन्तेः' इति णत्वमेव व्यावर्त्त्येत, तर्हि `हन्तेरत्पूर्वस्ये'त्येकमेव सूत्रं स्यात्। उपसर्गस्थान्निमित्तात्परस्य हन्तेरत्पूर्वस्य नस्य णत्वमित्येतावतैव प्रघ्नन्तीत्यत्र णत्वनिवृत्तिसम्भवात्। अतो योगविभागसामथ्र्याण्णत्वमात्रस्यायं नियम इति विज्ञायत इत्यर्थः। एकाजुत्तरेति। `कुमति च' इत्यस्य `प्रातिपदिकान्ते'त्यस्य चोपलक्षणम्। अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवश्त्त्वादेकाच्त्वमुत्तरपदस्य बोध्यम्। नच `पूर्वत्रासिद्धे न स्थानिवत्' इति वाच्यम्, `तस्य दोषः समयोगादिलोपलत्वणत्वेषु' इत्युक्तेः। ननु वृत्रघ्न इत्यत्र `हो हन्तेः' इति कथं कुत्वं, पूर्वस्य विधावल्लोपस्य स्थानिवत्त्वादित्यत आह–नकारे पर इति। माधवमतं दूषयितुमनुवदति– यत्त्विति। तुः पूर्ववैषम्ये। वैकल्पिकमिति। `प्रातिपदिकान्ते ति विहितमित्यर्थः। तद्भाष्येति। `कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः। किं प्रयोजनम्?। वृत्रघ्नः सुग्घः प्राघानि। `हन्तेरत्पूर्वस्ये'ति सूत्रे अत्पूर्वग्रहणं न कर्तव्यम्' इति ` अट्कुप्वा'ङिति सूत्रे भाष्यम्। अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात् `प्रातिपदिकान्ते'ति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते। तद्विरोधान्माधवमतमुपेक्ष्यमित्यर्थः। एवमिति। वृत्रहन्शब्दवदित्यर्थः। `इन्हन्पूषार्यम्णां शौ', `सौ चे ति दीर्घनियममात्रे दृष्टान्तो, न तु कुत्वादौ, असम्भवात्। शाङ्र्गमस्यास्तीत्यर्थे `अत इनिठनौ' इति मत्वर्थीय इनिः। यशोऽस्यास्तीत्यर्थे `अस्मायामेधारुआजः' इति विनिः। `तसौ मत्वर्थे' इति भत्वान्न रुत्वम्। नन्वर्थवत्परिभाषया `इन्हन्' इत्यत्रार्थवत एव इनो ग्रहणं, ततश्च विन्प्रत्यये इनोऽनर्थकत्वात्तस्य कथं ग्रहणमित्याशङ्क्य परिहरति– यशस्विन्नित्यादिना।\र्\ननिनस्मन्निति। एतच्च `येन विधिः' इति सूत्रे भाष्ये स्थितम्। राज्ञ' इत्यत्र अन् अर्थवान्, `दाम्नः' इत्यत्र तु अनर्थकः। `शाङ्र्गी'त्यत्र इन् अर्थवान्, `यशस्वी'त्यत्र तु अनर्थकः। `सुपया' इत्यत्राऽस् अर्थवान्, `सुरुआओता' इत्यत्र तु अनर्थकः। असन्तत्वाद्दीर्घः। `सुशर्मे'त्यत्र मन् अर्थवान्, `सुप्रथिमे'त्यत्र त्वनर्थकः। `मनः' इति न ङीप्। अर्यमन्शब्दे पूषन्शब्दे चाऽल्लोपे विशेष इत्याह-अर्यम्णीत्यादि। `विभाषा ङिश्योः' इत्यल्लोपविकल्पः। शसादावचि तु नित्यमल्लोप उक्तप्राय इति भावः। मह्रते पूज्यत इत्यर्थे कनिप्रत्ययः। इकार उच्चारणार्थः। ककार इत्। अन्निति प्रत्ययः शिष्यते। धातोरवुगागमः। तत्र ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तावयवः, महधातोर्हस्य घश्चेति त्रयं निपात्यते।
320 अत्पूर्वस्येति। एकाजुत्तरेति। न चाऽल्लोपे कृते एकाच्त्वं नास्तीति वाच्यं, पूर्वस्मादपि विधौ स्थानिवद्भावात्। न च `पूर्वत्राऽसिद्धे न स्थानिव'दिति वाच्यम्, `तस्य दोषः संयोगादिलोपलत्वणत्वेष्वि'त्युक्तेः। निवर्त्त्यते इति। `कुमति चे'ति णत्वमपि निवर्त्त्यत एवेति बोध्यम्। भाष्ये तु–`कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः'। किं प्रयोजनम्?।वृत्रघ्नः रुआउग्घ्नः प्राघानि। `हन्तेरत्पूर्वस्ये'त्यत्पूर्वग्रहणं न कर्तव्यं भवति, इत्युक्तम्। एतच्च वार्तिकाशयवर्णनमात्रम्, नतु वस्तुस्थितिः वार्तिकेन सूत्रावयवप्रत्याख्यानापेक्षया योगविभागमाश्रित्य वार्तिकार्थोपसङ्ग्रहस्यैव न्याय्यत्वादिति तु मनोरमाया स्थितम्। नन्वत्पूर्वस्येत्यत्र तपरो विवक्षितो न वा, यदि विवक्षितस्तर्हि `बहुवृत्रहाणी'ति न सिध्येत्। यद्यविवक्षितस्तदा `प्राघानी'ति चिणन्तेऽपि णत्वं स्यात्, ततश्च `कुव्यवाये हादेशेषु प्रतिषेधः'इति वचनं स्वीकर्तव्यमेवेति किमनेन योगाविभागेन? अत्राहुः–तुपरोऽत्र विवक्षित एव। न च `बहुवृत्रहाणी'त्यत्र णत्वाऽसिद्धिः, णत्वस्याऽन्तरङ्गत्वेन तत्कार्यं प्रति दीर्घस्याऽसिद्धत्वात्। न च त्रैपादिकेऽन्तरङ्गे ष#आष्ठी परिभाषा न प्रवर्तत इथि वाच्यं, कार्यकालपक्षाऽभ्युपगमात्। न चैवमन्तरङ्गं णत्वं `प्राघानी'त्यत्रापि स्यादिति वाच्यं, `पूर्वधातुः साधनेन युज्यते'इति पक्षे णत्वस्य बहिरङ्गत्वात्। इष्टानुरोधेन `पूर्वं धातुरूपसर्गेणे'ति पक्षस्यानभ्युपगमादिति। अन्ये तु– `हन्तेरत्पूर्वस्ये'त्यत्र `उपसर्गा'दित्यस्यानुवृत्तिस्वीकाराद्योदविभागसार्थ्येन `भ्रूणप्रघ्न 'इत्यत्र `एकाजुत्तरे'त्यादिना णत्वाऽभावेऽपि `वृत्रघ्नः'`रुआउग्घ्न'इत्यत्र णत्वं दर्वारमिति `कुव्यवाये'इति वार्तिकं स्वीकर्तव्यमेव। योगविभागस्याऽनन्तरस्येति न्यायबाधेनापि चरितार्थकत्वादुपसर्गसंबन्धस्यापि बाधे सामथ्र्याऽभावात्। न च ब्राहृआदिषु कर्मसूपपदेषु विधीयमानः क्विप्प्रत्ययः केवलधातोरेव स्यान्न तु सोपसर्गादिति `बरहृप्रहा'`भ्रूणप्रहे'–त्यादि रूपमेव दुर्लभमिति वाच्यम्, `आतोऽनुपसर्गे कः'इत्यत्राऽनुपसर्गे इति सामान्यापेक्षज्ञापकात्सोपसर्गाद्धन्तेरपि `ब्राहृभ्रूणे'ति क्विप्संभवात्। अनुपसर्गग्रहणस्य सामान्यापेक्षज्ञापकत्वे तूक्तवार्तिकमेव प्रमाणम्। तस्मान्`हन्ते'रिति योगविभागोऽत्र निरर्थक एवेत्याहुः।
TBD.