TBD.
हन्तेः इति वर्तते। वकारमकारायोः परतः हन्तिनकारस्य उपसर्गस्थान् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः।
TBD.
–
260 वमोर्वा। `उपसर्गादसमासेऽपी'त्यतः उपसर्गादित्यनुवर्तते। `रषाभ्यां नो णः' इति सूत्रमनुवर्तते। `हन्तेरत्पूर्वस्ये'त्यतो `हन्ते'रिति। तदाह– - उपसर्गस्यान्निमित्तादिति। णलि जहानेति स्तिते आह–हो हन्तेरिति। `अभ्यासाच्चे'त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः। जघ्नतुरिति। `गमहने'त्युपधालोपे `हो हन्ते'रिति कुत्वम्। थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्च `हो हन्ते'रिति कुत्वाऽप्राप्तौ।
229 जघान जघ्नतुरिति। यद्यप्यत्र `अभ्यासाच्चे'त्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्तरङ्गत्वात् `हो हन्ते'रित्युपन्यस्तम्।
TBD.