TBD.
अनितेः इति वर्तते। उपसर्गस्थान्निमित्तातुत्तरस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति। हे प्राण्। हे पराण्। पदान्तस्य इति प्रतिषेधस्य अपवादो ऽयम्। अन्तश्च पदापेक्षो गृहयते। केचित् तु पूर्वसूत्रे एव एतदन्तग्रहणं सामीप्यार्थम् अभिसम्बध्नन्ति। निमित्तसमीपस्थैकवर्णव्यवहितस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात्। इह मा भूत्, पर्यनिति इति। तैर् द्वितीयम् अपि पदान्तस्य णत्वार्थम् अन्तग्रहणम् आश्रयितव्यम् एव। येषां तु पर्यणिति इति भवितव्यम् इति दर्शनम्, तेषां पूर्वसूत्रे न अर्थो ऽन्तग्रहणेन।
TBD.
–
794 अन्तः। `अनिते'रिति सूत्रमनुवर्तते, `रषाभ्यां नो णः' इति च। अन्त इति षष्ठ\उfffद्र्थे प्रथमा।पदस्याऽन्तो विवक्षितः। `उपसर्गादसमासेऽपी'त्यत उपसर्गादित्यनुवर्तते। तदाह– पदान्तस्येत्यादिना। हे प्राणिति। प्रपूर्वादनेः क्विबन्तात्संबोधनैकवचनस्य हल्ङ्यादिलोपः, नस्य णः। नलोपस्तु न, `न ङिसंबुद्ध्योः' इति निषेधात्। मित्रशीरिति। मित्राणि शास्तीति विग्रहः। शासः क्विप्। `शास इदङ्हलोः' नित्युपधाया इत्त्वम्?, `र्वोरुपधायाः' इति दीर्घः। मित्रशिषावित्यादौ अपदान्त्तवान्न दीर्घः। आशासः क्वाविति। `आङः शासु इच्छाया'मित्यात्मनेपदी। तस्य `शास इदङ्हलोः' इति इत्त्वं तु न भवति, तत्र परस्मैपदिन एव शासेग्र्रहणात्। अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः। अत `आशासःर क्वा'विति विधिः। इत्त्वोत्त्वे इति। गृ? धातोः क्विपि, ऋत इत्त्वे,रपरत्वे, सोर्लोपे, `र्वोरुपधायाः' इतिदीर्घे गीरिति रूपम्। पृ?धातोः क्विपि, `उदोष्ठ\उfffद्पूर्वस्ये'ति ऋत उत्त्वे, रपरत्वे , सुलोपे, उपधादीर्घे पूरिति रूपमित्यर्थः।
659 अन्तः। अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्रते, नाऽनितेरपेक्षया, अव्यभिचारादत आह– पदान्तस्येति।हे प्राणिति। अन प्राणने। क्विप्। `अनुनासिकस्ये'ति दीर्घः। `न ङिसंबुद्ध्यो'रिति नलोपनिषेधः। अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाह्मतम्। मित्रशीरिति। लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, `वर्णाश्रये नास्ति प्रत्ययलक्षण' मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः। शासु अनुशिष्टौ। आङः शासु इच्छायाम्, आत्मनेपदी। `शास इ'दित्यादिना सिद्धे `क्वावेवु उपधाया इत्त्व' मिति नियमार्थमिदम्। तेन आशास्ते इति सिद्धमित्येके। अन्ये तु विध्यर्थमेवेदं, न नियमार्थं, प्राप्त्यभावात्। न च `शास इदङ्हलो'रिति इत्त्वस्य प्राप्तरस्तीति वाच्यं, तत्राङ्साहचर्यात्परस्मैपदिन एव सासेग्र्रहणात्। यद्यपि `सर्तिशास्ती'ति सूत्रे पृथग्योगकरणादर्तेर्लुङि आरत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदग्रहणानुवृत्तेरप्याकरे स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याऽङिति निष्कर्षः। तथा चाशास्ते इत्यत्र इत्त्वप्रसक्तिरेव नास्तीत्याहुः। वस्तुतस्तु `आशिषि लिङ्लोटौ' , `क्षियाशीः प्रैषेषु' इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम्। `इत्त्वं वाच्यटमित्यस्य इत्त्वं व्याख्येयमित्यर्थः। आशिषीत्याद्युक्त निर्देशादिति दिक्। सुम्वाविति। `ओः सुपि' इति यण्।
TBD.