Table of Contents

<<8-4-17 —- 8-4-19>>

8-4-18 शेषे विभाषा ऽकखादावषान्त उपदेशे

प्रथमावृत्तिः

TBD.

काशिका

नेः इति वर्तते, उपसर्गातिति च। अककारादिरखकारादिरषकारान्तः च उपदेशे यो धातुः स शेषः, तस्मिन् परतः उपसर्गस्थान्निमित्तातुत्तरस्य नेः नकारस्य विभाष णकार आदेशो भवति। प्रणिपचति, प्रनिपचति। प्रणिभिनत्ति, प्रनिभिनत्ति। अकखादौ इति किम्? प्रनिकरोति। प्रनिखादति। अषान्त इति किम्? प्रनिपिनष्टि। उपदेशग्रहणं किम्? इह च प्रतिषेधो यथा स्यात्, प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति इति। इह च मा भूत्, प्रणिवेष्टा। प्रणिवेक्ष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

79 शेषे विभाषा। अकखादाविति च्छेदः। `नेर्गदनदे'ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः। तदाह–गदनदादेरन्यस्मिन्निति। ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह–इहोपसर्गाणामिति। उक्तमिति। `हरिणे'ति शेषः। अत्र `एकपदे' इत्येन अखण्डं पदं विवक्षितं, `नित्यासमासे' इति लिङ्गात्। अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम्। अन्यथा `राजीयती'त्यादौ `अतो गुणे' इति शपा पररूपमेकादेशः पक्षे न स्यात्। अर्थनिर्देशश्चेति। धातुपाठे `भू सत्ताया'मित्याद्यर्थनिर्देश इत्यर्थः। उपलक्षणमिति। प्रदर्सनमात्रमित्यर्थः। नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह–यागादिति। न च `यागात्स्वर्गो भवती'त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात्। पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति `चुटू' इति सूत्रभाष्ये स्थितम्। न चातिप्रसङ्गः शङ्क्यः, `अनेकार्था अपि धातवो भवन्ती'ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः। सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः। एवं च `सेधतेर्गता' विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक्। ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह– उपसर्गास्त्विति। उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेः `उद्भवती'त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः। द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह– प्रभवतीत्यादि। प्रभवतीत्यादि। प्रभवः– प्रकाशः उत्पत्तिः शक्तिर्वा। पराभवः– पराजयः। सम्भवः-सम्भावना। अनुभवः– उपभोगः। अभिभवः–हिंसा। उद्भवः- - उत्पत्तिः। परिभवः–तिरस्कारः। उक्तं चेति। `हरिणे'ति शेषः। प्रहारः- - कशाद्याद्यातः। आहारो–भक्षणम्। संहारः– वधः। विहारः- क्रीडा। परिहारः- परित्यागः। इति भूधातुप्रक्रिया। एध वृद्धाविति। जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः। तत्र चतुर्थावस्था वृद्धिरुपचयः। कत्थ्यन्ता इति। `कत्थ श्लाघाया'मित्यन्ता इत्यर्थः। अनुदात्तेत इति। ततस्च एतेभ्य आत्मनेपदमेवेति भावः। तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते–

तत्त्वबोधिनी

61 `नेर्गदनदे'ति सूत्रोक्तापेक्षया शेष इत्याह– गदनदादेरन्यस्मिन्निति। उपदेशे किम् ?। प्रनिचकार प्रनिचखादेत्यत्रापि निषेधो यथा स्यात्। अषान्तेति किम् ?। प्रनिपिनष्टि। उपदेशग्रहणात्– प्रनिपेक्ष्यते। `चक्षिङः क्शाञ्'। `प्रनिचक्शे'इत्यत्रापि निषेधः। शेषग्रहणं स्पष्टार्थम्। णत्वशास्त्रे संहितायामित्यधिकारात्संहितायामववक्षितायां णत्वाऽभावः, संहितायां तु णत्वमिति विकल्पसिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह- - इहोपसर्गाणामित्यादि। एकपद इत्येनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम्। वाक्ये त्विति। सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः। उपलक्षममिति। एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्र `कुर्द खुर्द गुर्द गुद क्रीडायामेवे'त्येवकारो ज्ञापकः। `सेधतेर्गतौ' इति सूत्रे गतावित्येतदपि `षिध गत्या'मित्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्थेति दिक्। उत्पद्यत इत्याद्यर्थादिति। एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः। उपसर्गेण धात्वर्थ इति। अत एवाऽमरेणाप्युक्तं– `स्दाभाषणमालापः, प्रलापोऽनर्थकं वचः। अनुलापो मुहुर्भाषा, विलापः परिदेवनम्। विप्रलापो विरोधोक्तिः, संलापो भाषणं मिथः। सुप्रलापः सुवचनमपलापस्तु निह्नवः'इति।

Satishji's सूत्र-सूचिः

TBD.