Table of Contents

<<8-3-88 —- 8-3-90>>

8-3-89 निनदीभ्यां स्नातेः कौशले

प्रथमावृत्तिः

TBD.

काशिका

नि नदी इत्येताभ्याम् उत्तरस्य स्नातिसकारस्य मूर्ध्न्यादेशो भवति कौशले गम्यमाने। निष्णातः कटकरणे। निष्णातो रज्जुवर्तते। नद्यां स्नाति इति नदीष्णः। सुपि स्थः 3-2-4 इत्यत्र सुपि इति योगविभागात् कप्रत्ययः। कौशले इति किम्? निस्नातः। नद्यां स्नातः नदीस्नातः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

888 निनदीभ्यां। सस्य षः स्यादिति। `सहे साडः सः' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते, `अपदान्तस्य मूद्र्धन्यः' इत्यप्यधिकृतमिति भावः। निष्णात इति। कुशल इत्यर्थः। नदीष्ण इति। नद्यां कुशलं स्नातीति विग्रहः। सुपीति क इति। `सुपि स्थः' इत्यत्र `सुपी'ति योगविभागात्क इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.