TBD.
सु वि निर् दुरित्येतेभ्यः उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुपि इति स्वपिः कृतसम्प्रसारणो गृह्यते। सुषुप्तः। विषुप्तः। निःषुप्तः। दुःषुप्तः। सूति इति स्वरूपग्रहणम्। सुषूतिः। विषूतिः। निःषूतिः। दुःषूतिः। सम सुषमम्। विषमम्। निःषमम्। दुःषमम्। सुपेः षत्वं स्वपेर्मा भूद् विसुष्वापेति केन न। हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्। स्थादीनां नियमो नात्र प्राक् सितादुत्तरः सुपिः। अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते। पूर्वत्रासिद्धीयमद्विर्वचने इति कृते ष्त्वे ततो द्विर्वचनम्।
TBD.
–
–
267 सुपिसूतिसमा इति। `सूति'ति क्तिन्नन्तः। `समे'ति पचाद्यजन्तः। सुषुप्तिः। सुषूतिः। सुषमा। विषमः। अद्विर्वचन इति। तेन षत्वसहितस्य द्वित्वम्। सुपिरूपाभावादिति। `एकदेशविकृतमनन्यव'दिति तु न प्रवर्तते, तस्य स्थानिवत्सूत्रशेषत्वात्, षत्वस्य त्रैपादिकत्वेन तत्कार्यं प्रति स्थानिवत्त्वाऽभावादित्याहुः। वस्तुतस्तु `स्थानिवदादेश' इत्येनं प्रति त्रिपादी सिद्धेत्युक्तम्। तस्मादिह समाधानान्तरमूह्रमित्यन्ये।
TBD.