Table of Contents

<<8-3-82 —- 8-3-84>>

8-3-83 ज्योतिरायुषः स्तोमः

प्रथमावृत्तिः

TBD.

काशिका

ज्योतिसायुसित्येताभ्याम् उत्तरस्य् स्तोमसकारस्य मूर्धन्यादेशो भवति समासे। ज्योतिष्तोमः। आयुष्टोमः। समासे इत्येव, जोतिः स्तोमं दर्शयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1006 ज्योतिरायुषः स्तोमः। अत्र त्रिसूत्र्याम्-अङ्गुलेः सङ्गः, भीरोः स्थानं, ज्योतिषः स्तोमः,आयुषःस्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः। तद्ध्वनयन् प्रत्युदाहरति–अङ्गुलेः सङ्ग इत्यादि। नेह `इण्को'रित्यनुवर्तते, व्याख्यानात्।

तत्त्वबोधिनी

854 ज्योतिषः स्तोम इति। इह `ज्योतिः स्तोमोऽय'मिति प्रकत्युदाहर्तुमुचितम्।

Satishji's सूत्र-सूचिः

TBD.