TBD.
मूर्धन्यः इति वर्तते। इणन्तादङ्गातुत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति। च्योषीढ्वम्, प्लोषीढ्वम्। लुङ् अच्योढ्वम्। अप्लोढ्वम्। लिट् चकृढ्वे। ववृढ्वे। इण्कोः इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम्। पक्षीध्वम्। यक्षीध्वम्। षीध्वंलुङ्लिटाम् इति किम्? स्तुध्वे। अस्तुध्वम्। अङ्गातिति किम्? परिवेविषीध्वम्। अर्थवद्ग्रहणादपि सिद्धम्? तत् तु नाश्रितम्।
TBD.
516 इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्.. एधाञ्चकृढ्वे. एधाञ्चक्रे. एधाञ्चकृवहे. एधाञ्चकृमहे. एधाम्बभूव. एधामास. एधिता. एधितारौ. एधितारः. एधितासे. एधितासाथे..
93 इणः षीध्वं। षीध्वं लुङ्लिट् एषां द्वन्द्वः। `धः' इति षष्ठ\उfffदेकवचनम्। `इण' इत्यङ्गविशेषणम्। तदन्तविधिः। `अपदान्तस्य मूर्धन्य' इत्यधिकृतं। तदाह– इणन्तादित्यादिना। धकारस्य ढकारो मूर्धन्यः, घोषसंवारनादमहाप्राणप्रयत्नसाम्यात्। तदाह–एधांचकृञढ्व इति। उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह– एधांचक्रि इति। एधांचकृवह इति। लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत्। एवं लोटि महिभावे द्वित्वादि पूर्ववत्। सर्वत्राऽसंयोगाल्लिट्कदिति कित्त्वाद्गुणाऽभावः। अथ भूधातोर्लिडन्तस्यानुप्रयोगे उदाहरति– एधांबभूवेति। एधाञ्चक्र इत्यनेन समानार्थकम्, अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात्। नन्वस्तेरनुप्रयोगे लिडादेशस्याद्र्धधातुकत्वादस्तेर्भूरित्याद्र्धधातुके विहितो भूभावुः कुतो न स्यादित्यत आह–अनुप्रयोगेति। कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामथ्र्यादस्धातोर्भूभावो नेत्यर्थः। तदेवोपपादयति- - अन्यथेति। अनुप्रज्यमानस्याऽस्तेर्भूभावाभ्युपमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविदौ `क्रस्चानुप्रयुज्यते' इति वा, `कृभु चानुप्रयुज्यते' इति वा ब्राऊयात्। तावता एधांबभूवेति सिद्धेरित्यर्थः। यद्यपि `कृ'ञित्युतक्त्वौ लाघवमस्ति तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भाव। अत एवाऽत उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते।
72 `इण्को'रित्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम्। तेनेहन न- पक्षीध्वम्। अङ्गात्परेषामिति। `विहिताना'मित्युक्तौ तु दाञो लुङि अदिड्ढ्वमित्यत्राऽव्याप्तिः स्यात्, लिहदुहनहां तु ढत्वघत्वधत्वेषु लिक्षीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्याप्तिश्च स्यादिति बोध्यम्। अङ्गात् किम् ?। वेविषीध्वम्। यद्यप्यर्थवतः षीध्वमित्यस्य ग्रहणात्कृषीढ्वमित्यादावेव भवेन्नत्वत्र, तथाप्यर्थवद्ग्रहमपरिभाषा क्वचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम्। तेन `अनिनस्मन्ग्रहणानी'ति सिद्धम्। एधांबभूवेत्यादि। `आम्प्रत्ययव'दिति सूत्रे कृञ्ग्रहणादनुप्रयोगान्तरे तङ् नेति `शेषात्कर्तरी'ति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव– `एधांबभूवे ईक्षांबभूवे इति। अस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते। तथाहि– उभयत्रापि `ह एती'ति हादेशे कृते एधामाहे ईक्षामाहे इति केचित्। तासिसाहचर्यादिट\उfffदेव हत्वं न त्वेशीत्यन्ये। तत्साहचर्यादेव सार्वधातुक एव एति हत्वम्। तथा च कर्मव्यतिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि। तेन एधामासे ईक्षामासे इत्येव रूपमित्यपरे। कृभ्वितीति। यद्यपि कृञित्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं प्रत्याहाराश्रयणे क्लेश इति भावः।
वृत्ति: इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्। Following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term “षीध्वम्” or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute.
उदाहरणम् – कृषीढ्वम् derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्, आत्मनेपद-प्रत्यय:।
कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + ध्वम् 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-105. As per 3-4-116, the affix “ध्वम्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + सीयुट् ध्वम् 3-4-102, 1-1-46
= कृ + सीय् ध्वम् 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix “सीय् ध्वम्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कृ + सीध्वम् 6-1-66. 7-2-10 stops 7-2-35. As per 1-2-12 the affix “सीध्वम्” is a कित् here. Hence 1-1-5 stops 7-3-84
= कृ + षीध्वम् 8-3-59
= कृषीढ्वम् 8-3-78