Table of Contents

<<8-3-76 —- 8-3-78>>

8-3-77 वेः स्कभ्नातेर् नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

वेः उत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति। विष्कभ्नाति। विष्कम्भिता। विष्कम्भितुम्। विष्कम्भितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

334 वेः स्कभ्नातेर्नित्यम्। `सिवादीनां वे'त्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम्। विस्कभ्नोतीति। `स्कभ्नाते'रित्यत्र श्नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम्, अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात्। न चेष्टापत्तिः, माधवादिग्रन्थविरोधादिति भावः।

Satishji's सूत्र-सूचिः

TBD.