Table of Contents

<<8-3-74 —- 8-3-76>>

8-3-75 परिस्कन्दः प्राच्यभरतेषु

प्रथमावृत्तिः

TBD.

काशिका

परिस्कन्दः इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु। पूर्वेन मूर्धन्ये प्राप्ते तदभवो निपात्यते। परिस्कन्दः। अन्यत्र परिष्कन्दः। अचि निपातनम्। अथ वा निष्थातकारस्य लोपः। भरतग्रहणं प्राच्यविशेषणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

835 परिस्कन्दः प्राच्यभरतेषु। `अपदान्तस्य मूर्धन्यः' इत्यधिकारे इदं सूत्रम्। पूर्वेणेति। `परेश्चे'ति पूर्वसूत्रम्। परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः। तेन षत्वविकल्पे प्राप्त प्राच्यभरतेषु षत्वाऽभावो निपात्यत इत्यर्थः। परिस्कन्द इति। परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः।

तत्त्वबोधिनी

684 परिस्कन्दः। अचि निपातनम्। अथ वा निष्टातकारस्य लोप इति काशिका।

Satishji's सूत्र-सूचिः

TBD.