Table of Contents

<<8-3-64 —- 8-3-66>>

8-3-65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्

प्रथमावृत्तिः

TBD.

काशिका

मूर्धन्य इति वर्तते, सः इति च। उपसर्गस्थान् निमित्तातुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुनोति अभिषुणोति। परिषुणोति। अभ्यषुणोत्। पर्यषुणोत्। सुवति अभिषुवति। परिषुवति। अभ्यषुवत्। पर्यषुवत्। स्यति अभिष्यति। परिष्यति। अभ्यष्यत्। पर्यष्यत्। स्तौति तभिष्टौति। परिष्टौति। अभ्यष्तौत्। पर्यष्टौत्। स्तोभति अभिष्टोभते। परिष्तोभते। अभ्यष्टोभत। पर्यष्टोभत। स्था अभिष्ठास्यति। परिष्ठास्यति। अभ्यष्टात्। पर्यष्ठात्। अभितष्टौ। परितष्ठौ। सेनय अभिषेणयति। परिषेणयति। अभ्यषेणयत्। पर्यषेणयत्। अभिषिषेणयिषति। परिषिषेणयिषति। सेध अभिषेधति। प्रिषेधति। अभ्यषेधत्। पर्यषेधत्। सिच अभिषिञ्चति। परिषिञ्चति। अभ्यषिञ्चत्। पर्यषिञ्चत्। अभिषिषिक्षति। परिषिषिक्षति। सञ्ज अभिषजति। परिषजति। अभ्यषजत्। पर्यषजत्। अभिषिषङ्क्षति। प्रिरङ्क्षति। स्वञ्ज अभिष्वजते। परिष्वजते। अभ्यष्वजत। पर्यष्वजत। अभिषिष्वङ्क्षते। परिषिष्वङ्क्षते। सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः। उपसर्गातिति किम्? दधि सिञ्चति। मधु सिञ्चति। निर्गताः सेचका उस्मसद् देशात् निःसेचको देशः इति नायं सिचेः उप्सर्गः। अभिसावकोयति इत्यत्र अपि न सुनोतिं प्रति किर्यायोगः, किं तर्हि? सावकीयं प्रति। अभिषावयति इत्यत्र तु सुनोतिमेव प्रति क्रियायोगः, न सावर्यतिं प्रति इति षत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

114 उपसर्गात्सुनोति। उपसर्गस्तादिति। उपसर्गशब्द उपसर्गस्थे लाक्षणिक इतिभावः। निमित्तादिति। इण्रूपादित्यर्थ-। `इण्को'रित्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात्। सस्येति। `सहेः साडः स' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तत इति भावः। षः स्यादिति। `अपदान्तस्य मूर्धन्य' इत्यधिकारादिति भावः। अत्र सुनोतीत्यादिः श्तिपा निर्देशो यङ्?लुङ्निवृत्त्यर्थ इति प्राञ्चः। स्पष्टार्थ इति प्रौढमनोरमायाम्। सेनयेति णिजन्तो नामधातुः। सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम्। अभिषुणोतीत्याद्युदाहरणम्। प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यास।

तत्त्वबोधिनी

89 उपसर्गात्। `सुनोति सुवती' इत्यादिश्तिपा निर्देशो यङ्?लुङ्निवृत्त्यर्थस्तेन अभिसोषवीति अभिसोषोतीत्यादौ षत्वं नेति प्राञ्चः। `स्थादिष्वेवाभ्यासस्य षत्वं न सुनोत्यादिष्वि'ति नियमान्नेह षत्वप्राप्तिरिति व्यर्थः प्रतिषेध' इति मनोरमादौ स्थितम्। सेनयेति णिजन्तो नामदातुः। सेनयाऽभियाति– अभिषेणयति। सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं, न तु सिध्यतेः। परिसिध्यति। `गृहा दारा' इत्यत्रेव ता4त्स्थ्यात्ताच्छब्द्यमित्याह– उपसर्गस्थादिति। निमित्तादिति। इण्रूपात्। कवर्गस्तुनेह संबध्यते, असंभवात्। न च निःषुणोति निःषेधति निःषिञ्चतीत्यादौ व्यवदानेन इणः परत्वाऽभावात्सस्य षत्वं न स्यादिति शङ्क्यं, षत्वविधौ `नुम्विसर्जनीयशव्र्यवायेऽपी'त्यधिकारात्। `इणन्तादुपर्गा'दिति व्याख्याने तु स्यादेवात्राऽव्याप्तिः। `दुरः षत्वणत्वयो'रित्युपसर्गत्वप्रतिषेधाद्दुः सुनोति दुःसेधतीत्यादौ तु षत्वेन न भवितव्यमिति दिक्। मूर्धन्यादेशे फलितमाह– सस्य षः स्यादिति। स्थादिषु `प्राक् सिता'दित्यत्र क्रमज्ञानस्यापेक्षितत्वात्तेनैव क्रमेण षत्वसूत्राणि व्याचष्टे-

Satishji's सूत्र-सूचिः

TBD.