Table of Contents

<<8-3-62 —- 8-3-64>>

8-3-63 प्राक् सितादड् व्यवाये ऽपि

प्रथमावृत्तिः

TBD.

काशिका

सेवसित 8-3-70 इति वक्ष्यति। प्राक् सितसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः तत्र अड्व्यवाये ऽपि मूर्धन्यो भवति इत्येवं तद् वेदितव्यम्, अपिशब्दादनड्व्यवाये ऽपि। वक्ष्यति उपसर्गात् सुनोतिसुवति इति षत्वम्। अभिषुणोति। परिषुणोति। वषुणोति। निषुणोति। अभ्यषुणोति। पर्यषुणोत्। व्यषुणोत्। न्यषुणोत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

95 प्राक्सितात्। `उपसर्गात्सुनोति'त्यादिना विहितं षत्वमड्?व्यवाय एवेति भ्रमनिवारणार्थमपिशब्दस्योपादानम्। तेषामिति। पञ्चदशानामित्यर्थः। अब्यषुणोदित्यादीन्युदाहर्तव्यानि। स्थादिषु। इह द्वे वाक्ये,आद्यं षत्वविध्यर्थं, द्वितीयं तु नियमार्थमित्याशयेनाह–

Satishji's सूत्र-सूचिः

TBD.