Table of Contents

<<8-3-54 —- 8-3-56>>

8-3-55 अपदान्तस्य मूर्धन्यः

प्रथमावृत्तिः

TBD.

काशिका

पदाधिकारो निवृत्तः। अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतम् वेदितव्यम् आपादपरिसमाप्तेः। वक्ष्यति आदेशप्रत्यययोः 8-3-59। सिषेव। षुष्Vआप। अग्निषु। वायुषु। अपदान्तस्य इति किम्? अग्निस्तत्र। वायुस्तत्र। षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

208 रामे–सु' इति स्थिते। आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य। मूर्धन्यः=मूर्धस्थानकः। अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम्। इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः।

तत्त्वबोधिनी

175 अपदान्तस्य। `ष' इत्येव सिद्धे मूर्धन्यग्रहणम् `इणः षीध्व'मिति ढत्वार्थम्। चकृढ्वे। अकृढ्वम्।

Satishji's सूत्र-सूचिः

TBD.