TBD.
षः इति सम्बध्यते। इसुसित्येतयोः विसर्जनीयस्य अन्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः। सर्पिष्करोति, सर्पिः करोति यजुस्करोति, यजुः करोति। सामर्थ्ये इति किम्? तिष्ठतु सर्पिः, पिव त्वमुदकम्। सामर्थ्यम् इह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा।
TBD.
–
–
128 व्यपेक्षाविरहेऽपीति। `तिष्ठतु सर्पिष्कुण्डिकामानाये'त्यादावित्यर्थः।
TBD.