TBD.
षः इति सम्बध्यते। द्विस् त्रिस् चतुरित्येतेषां कृत्वो ऽर्थे वर्तमनानां विसर्जनीयस्य षकार आदेशो भवति अन्यतरस्यां कुप्वोः परतः। द्विष्करोति, द्विः करोति। त्रिष्करोति, त्रिः करोति। चतुष्करोति, चतुः करोति। द्विष्पचति, द्विः पचति। त्रिष्पचति, त्रिः पचति। चतुस्पचति, चतुः पचति। कृत्वो ऽर्थे इति किम्? चतुस्कपालम्। चतुस्कण्टकम्। पूर्वेण नित्यं षत्वं भवति। इदुदुपधस्य इत्येतस्य अनुवृत्तौ सत्यां क्र्त्वो ऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे द्विस्त्रिश्चतुरिति शक्यमकर्तुम्। क्र्त्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुस्कपाले मा। षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण। सिद्धे ह्ययं विधत्ते चतुरः सत्वं यदापि कृत्वो ऽर्थे। पुल्ते कृत्वो ऽर्थीये रेफस्य विसर्जनीयो हि। एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम्। अन्यो हि नेदुदुपधः कृत्वो ऽर्थः कश्चिदप्यस्ति। अक्रियमाणे ग्रहणे विसर्जनीयस् तदा विशेष्येत। चतुरो न सिध्यति तदा रेफस्य विसर्जनीयो हि। तस्मिंस् तु क्रियमाणे युक्तं चतुरो विशेषणं भवति। प्रकृतं पदं तदन्तं तस्य अपि विशेषणं न्याय्यम्। एवं तु क्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वो ऽर्थे ऽपि वर्तमनस्य पूर्वेण एव नित्यं षत्वं स्यात्। पूर्वत्र सिद्धे न अस्ति विप्रतिषेधो ऽभावादुत्तरस्य।
TBD.
–
–
–
TBD.