Table of Contents

<<8-3-25 —- 8-3-27>>

8-3-26 हे मपरे वा

प्रथमावृत्तिः

TBD.

काशिका

हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति। किं ह्मलयति, किम् ह्मलयति। कथं ह्मलयति, कथम् ह्मलयति। यवलपरे यवला वा। यवलपरे हकारे मकारस्य यवला यथासङ्ख्यं वा भवन्ति इति वक्तव्यम्। किय्म्\उ0310 ह्यः, किं ह्यः। किव्म्\उ0310 ह्वलयति, किं ह्वलयति। किल्म्\उ0310 ह्लादयति, किं ह्लाहयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

82 मपरे हकारे परे मस्य मो वा. किम् ह्मलयति, किं ह्मलयति. (यवलपरे यवला वा). किंय्ह्यः, किं ह्यः. किंव्ह्वलयति, किं ह्वलयति. किंल् ह्लादयति, किं ह्लादयति..

बालमनोरमा

तत्त्वबोधिनी

101 हे मपरे वा। मपर इति बहुव्रीहिः। यवलेति। यवलाः परा यस्माद्यवसपरस्तस्मिन्हकारे परे मस्य यवला (वा) भवन्तीत्यर्थः॥

Satishji's सूत्र-सूचिः

TBD.